________________
૭૮૮
विशेषावश्यकभाष्ये
एतप्रमाणद्वयप्रतिपादनी गाथा - किंच परहितयणिहिता मेती भूतेहि संपरिग्गहिता । हिंसासंकप्पो' वा जं धम्माधम्महेतु ति ||४००१॥
किंच परहितयणिहिता इत्यादिर्गतार्था ॥ ४००१ ॥ एवं जि[ २६३ - प्र० ] णादिपूया सडा-संवेगमुद्धिहेऊतो । अपरिग्गा वि धम्माय होति सीलव्वताई व्व ॥४००२॥
[ नि० ७२३
एवं जिणादिपूया इत्यादि । अपरिगृ ( प्र ) हाऽपि जिनादिपूजा धर्माय, श्रद्धासंवेगशुद्धिहेतुत्वात् शीलवतादिवत् ॥४००२॥
यच्चोक्तम् 'मुक्ता न पूजनीयाः अमूर्त्तत्वादाकाशवत् ' एतदनैकान्तिकाख्यानाय — जं चिय मुत्तिवित्ता मुत्ता गुणरासयो विसेसेणं ।
तेणं चिय ते पुज्जा णाणातितियं व मोक्खत्थं ॥ ४००३ ||
जं चिय [मुत्तिविमुत्ता ] मुत्ता इत्यादि । ज्ञान- दर्शन - चारित्राणि अमूर्त्तानि मोक्षार्थिभिः पूज्यानि दृष्टानीति अनैकान्तिकत्वम्, अथवा प्रतिप्रमाणम् - मुक्ता विशेषेण पूज्याः, गुणराशित्वात्, ज्ञान- दर्शन- चारित्रत्रयवत् । इतश्च गुणा एव पूज्याः न मूर्त्तिः ॥४००३ ॥
यस्मात् —
मुत्तिमतो विण मुत्ती पूर्तिज्जति किंतु जे गुणा तस्स । ते मुत्तिवित्त च्चिय णणु सिद्धगुणा विसेसेणं ॥ ४००४ ॥
1
मुत्तिमतो वीष्यादि । मूर्त्तिमतो मूर्त्तिर्न पूज्यते किन्तु गुणा एव पूज्यन्ते, च मूर्त्तिविमुक्ताः - अमूर्त्ताः - इत्यर्थः । तैरप्यनैकान्तिकः । सिद्धगुणास्तु विशेषेणामूर्त्ताः । कोऽभिप्रायः ? मूर्त्तिमतो गुणाः कदाचिदभेदोपचाराद् द्रव्यार्थैकत्वादेशात् मूर्त्तिमन्तोsपि व्यपदिश्येरन्, सिद्धगुणास्त्वमूर्त्ता एव, सिद्धस्यापि गुणिनो मूर्त्तिविरहितत्वात् । अथैवं भवतो बुद्धिः स्यात् - मूर्तिपूजया तत्सम्बन्धित्वादमूर्त्तानामपि गुणानां पूजा स्यात्, तिलवासनया तैलवासवत् । सिद्धगुणानां तु पूजा न प्राप्नोति, मूर्तिपूजा(मूर्ति) रहितत्वात्, आकाशगुणानामिवेति ॥४००४॥
एतप्रदर्शनीय गाथा -
अधव मती मुत्तिमतो गुणपूया होतु मुत्तिपूयातो ।
तग्गुण संबंधातो सिद्धगुणाणं तु सा णत्थि ||४००५ ||
१ नियया को हे । २प्पा त । ३ सव्वा त । ४ व हे । ५ "विट' हे a, विमुक्का को 1