________________
नि० ७२३]
प्रयोजन-फलद्वारे। म्बन्धः । यस्य पुनरेवंविधेनापि वधेन पापसम्बन्धस्तं प्रति तेन प्र(अ)दानप्रसङ्गोऽयमेवं प्राप्नोतीत्यनिष्टापादनं तस्मात् ॥३९९७॥
ण परपरिग्गहतो च्चिय धम्मो किंतु परिणामसुद्धीतो। पूयाऽपरिग्गहम्मि वि सा य धुवा तो तदारंभो ॥३९९८॥ ___ण [पर०] । [न] परपरिग्रहेण एतदवधारणम्-परेण परिग्रहे कृते धर्मः, अपरिग्रहे त्वधर्म इति, किन्तु परिणामशुद्धित एव धर्मों भवतीत्यवधारणम् । परः परिगृह्णातु वा, मा वा परिगृ ग्रोहीत् । पूजाया[:] प्रतिमादिभिरपरिग्रहेऽपि सा परिणामशुद्धिर्बुवा । तस्मात् पूजारम्भो युक्तः, परिणामविशुद्धिहेतुत्वात् ॥३९९८॥
इध चोतगमऽणुमोदगमऽणिसेधगमेव संपदाणं ति। . बडु-मुणि-पडिमादि जतो ण दाणमपरिग्गहं तेणं ॥३९९९॥
इध चोतगमऽणुमोदग० इत्यादि । इह सत्कृत्य प्रदान सम्प्रदानं त्रिविधं संम्भवतः-स्वयं प्रार्थना-चोदना-चोदकं वदु(बटु)प्रमृतीनाम् , अप्रार्थितप्रदाने तु स्वयमनुमतेस्तत्परिभोगादनुमोदकम्-मुनिप्रभृतीनाम् , यत् पुनरचेतनानां प्रतिमादीना(नां) पुष्पादि उपह(हि)यते तद् अनिषेधक(कम्) । सर्वत्र सम्प्रदानार्थत्वात् दानमपरिग्रह नवास्ति किञ्चित् । अत एव च लक्षणम्-"परस्वत्वापादनं दानम्"[ ]तथा "अनुप्रहाथ स्वस्यातिसों दानम्" [तत्त्वार्थ० ७, सू० ३३] । तस्मादवश्यं सपरिग्रह दानम् ॥३९९९॥
जिनादिपूजा तु अपरिग्रहेति आचार्य आहदाणऽपैरिग्गहणम्मि वि धम्मो णिययपरिणामसुद्धीतो। अपरिग्गहे वि जति सा को णाम परिग्गहग्गाहो ॥४०००॥
दाणऽपरिग्गहणम्मि वि इत्यादि । अपरिग्रहपूजाजनिता परिणामशुद्धिर्धयि, परिणामशुद्धित्वात् , दानपरिणामशुद्धिवत् । अथवा जिनादिपूजा सम्यक् प्रयुक्ता धर्महेतुः, विशुद्धि(द्ध)परिणामत्वे सन्ति(ति) अपरिगृहीतत्वात्, सर्वभूतविषयमैत्रीवत् । सैव चासम्यक् प्रयुक्ता अधर्माय, अशुद्धपरिणामत्वे सति अपरिगृहीतत्वात् , भूतविषयहिंसासंकल्पवत् ॥४०००॥
१ मूलगाथायाम् “तेणाऽदाणप्पसंपोऽयं" इति वचनात् अत्र 'अदान' पदमेव समुचितम् । तुलनीयम् --"तेन च हिंसादिदोषेण अदानप्रसंशोऽयम्"- हे वृ०म०पृ०१२५० । २ सा परिणामशुद्धिः पूजानिमित्ततो जाता। ३ गाथायाः उत्तरार्धे नास्ति त। ४ "मत्कृत्य प्रदानम् । तच संभवतस्त्रेधा-तद्यथा-प्रार्थना-चोदना-दीयतो मे इति, अप्रार्थितप्रदाने तु स्वयम् अनुमते तत्परिभोमाद् भनुमोदकम् , अनिषेधकम्-अप्रतिषेधमात्रम्"-कोटथा. वृ• मु.पृ. ९१६ । हे. वृ.पृ०१२५०मा०३२७३ । ५ णमप हे। ६ गाथायाः पूर्वार्ध नास्ति त।