________________
नि० ७२३]
प्रयोजन - फलद्वारे |
हरण-पदाणहेतू हवेज कोवादयो मती तं पि ।
णु सकतं चिय भणितं निमित्तमेतं परो णवरं ॥ ३९७६ ॥ हरण-पदा हेतु इत्यादि । हरणनिमित्तं कोप:, प्रदाननिमित्तं च प्रसादः । तस्मात् कोपप्रसादकः पर एव हर्त्ता दाता चेति परनिमित्तमेव । नन्वेतदभिहितम् 'सर्वस्य स्वकृतमेव फलं शुभाशुभं वा परस्तत्र निमित्तमात्रमेव ' इति ॥३९७६॥ जति [ २६१ - द्वि० ] वाण सकेतहेतुं तं तो कोवप्पसादव राया । सो सन्ववयाणं संमाणफलदो कथं ण भवे ? ||३९७७॥
,
जति वाण सतहेतुं इत्यादि । यदि वा परकृतमेव शुभाशुभफलं कोपप्रसादजनितं भवेत् न स्वकृतहेतुकम् ततः प्रप्तन्नो राजा बहूनामेककार्यसेविनां सेवकानां किमिति समानफलदो न भवेत् ? रुषितो वा बहूनां किमिति सर्वेषां समानदण्डकारी न भवेत् ? दृष्टश्च विशेषः - समानमीहमानानां च केचिदर्थैर्युज्यते (ते) परे च नेति न तत्र कोप-प्रसादावेव कारणम् । किं तर्हि ? स्वकृतधर्माधर्मौ तत्रान्तरगतकारणम्, राजा (तु) निमित्तमात्रमेव, तथा च लोके श्रुतिः -- सुकृतपुण्योऽयं यदस्य राजा प्रसन्न इति ॥ ३९७७॥
दीसति य विसमफलदो विफलो य समाणसेवयाणं पि । भणति य सुकतपुण्णो तो से रायप्पसादो चि ॥३९७८ ॥ दीसति य विसमफलदो इत्यादिर्गतार्था ॥ ३९७८॥
૭૮૩
कोव - प्पसातहेतुं च जं फलं ण हि तदत्थमारंभो । ण परप्पसादणत्थं च किंतु यियप्पसातत्थं ॥ ३९७९ ॥
कोव-पसातहेतुं च जं फलं इत्यादि । कोप- प्रसादौ न निष्फलावेव, अवश्यं हि तयोः फलेन भवितव्यम्, न तु तेन फलेनास्माकं परितोषः, नैतदर्थोऽयमारम्भः किं तर्हि ? मोक्षार्थः । स चात्मप्रसादादेव - पारम्पर्येण यथोक्तम् अभ्यर्चनादर्हताम् मनःप्रसादः, ततः समाधिश्व, तस्मादपि निःश्रेयसम् । अतो हि तत्पूजनं न्याय्यमिति । अतो न परप्रसादा ( द ) नार्थमारम्भः ॥३९७९॥
यस्मात् -
धम्मम्माण परप्पसादकोवाणुवत्तिणो जम्झ ।
तो ग परो चि पसण्णो धम्मो कुवितो चि वाऽधम्मो ||३९८० |
१ कथं को । २ पात । ३ अपि च, द° त । ४ °त्थं किन्तु हे । ५ 'यथोक्तम् - यथा शास्त्रे मतनापूर्वकम् अर्हताम् अभ्यर्चनं सूचितं तथाकरणेन पूजकस्य पारंपर्येण मनःप्रसादः' इति आशयः ।