________________
७२३)
प्रयोजनफल-द्वारे।
एवं होतणवत्था दाण-ग्गहणाणमऽपरिभोगो ये । जति परतो लद्धव्वं 'दिण्णं वा वैस्स तं चेअ॥३९६८॥
जति वा पडिलभितन्वं इत्यादि गाथाचतुष्टयम् । यदि यस्मै दत्त दात्रा तस्मादेव तेन प्रतिलब्धव्यं नान्यत इति मोक्षप्राप्ते तस्मिन्, कृम्यादिकुगतिगते वा तत्प्रतिदानाऽसामर्थ्यात् तत्कृतकर्मफलनाशः। अथवा साधूपग्राह्यो गृहीत्वा दानं जन्मान्तरे निःसङ्गसाधुः संवृत्तः, तस्य च देयासम्भवाद्वा तमदत्त्वा मृतस्या(स्य) कुतो लाभस्तपश्चरणकृतो यमा(येना)सौ पूर्वतरदायिनो दानग्रहणं प्रतिदद्यात् ! एवमेव परस्य धनमपहृत्य साधुतां प्राप्तः स्वयमदत्त्वा तत्कृतफलाभावात् निस्वः, तस्येदानी निःस्वस्य किमसौ प्रतिहरेत् यद् यस्य तेनापहृतं हर्त्तव्याभावात् ! अथैवमपि कल्प्येत बहुशस्तेन दत्तम् , तेन सर्वे तस्य प्रति प्रयच्छन्तीति अन्यतो लब्ध्वा अस्य दानग्रहणवत् विशुद्धिं करिष्यति । एवमन्यस्मादपहृत्य प्रतिलभ्यान्यस्मै दास्यति यस्यानेनापहृतमिति । एवं न विच्छेदः फलस्येति । एवमनवस्थानदोषः प्रसज्यते, स्वपरिभोगाभावश्च तुल्यायव्ययविशुद्धेः शून्यफलत्वात् ।।३९६५-६८॥
तम्हा स-पराणुग्गहपरिणामातो सुपत्तविणियोगो। दाता[२६१-०] पुण्णं पावति जं तत्तो से फलं होति ॥३९६९॥
तम्हा स-पराणुग्गहपरिणामातो। तस्मात् स(स्व)-परानुग्रहपरिणामादात्मनः सुकृतफलं सुपात्रविनियोगाच्च अनन्तगुणमपि विपच्यते यदन्येभ्यः प्रतिददाति तदभ्यधिक स्वयमुपभोक्यते ॥३९६९।।
जध सो पत्ताणुग्गहपरिणामातो फलं सतं लभति । तध गेण्हतो वि फलं तदणुग्गहतो सतो लभति ॥३९७०॥
जब सो पत्ताणुग्गह० । तथा असौ पात्रानुग्रहपरिणामादनन्तगुणफलं स्वत एव लभते, न तस्मात् पात्रसकाशात् । एव(वं) ग्रहीता विशुद्धपरिणामात् तदनुग्रहबुद्विपरिणामात् स्वत एव पुण्यफलमवाप्नोति ॥३९७०॥
हारी वि हरणपरिणामसितो वज्झपच्चयावेक्खं । पावो पावं पावति जं तत्तो से फलं होति ॥३९७१॥
१° त । २ देयं को। ३ त को हे त।। गात। ५ 'णामो । सटीक त प्रतौ । ६ सओ को हेत।