________________
विशेषावश्यकभाष्ये। [नि० ७२३मुतमागमो ति य तो सुतोवयोगप्पयोयणं तं च । आतहितपरिणा[२६० प्र०]भावसंवरादी बहुविकप्पं ॥३९५३।। कम्मक्खयो । सुतमागमो ति य । स्फुटार्था ॥३९५२-५३॥
एकेभ्यः फलमित्यत्राक्षेपः---- पूआफलप्पदा ण हि णभं व कोबप्पसादविरहातो। जिणसिद्धा दिलुतो वेधम्मेणं णिवातीया ॥३९५४॥
पूआफलप्पदा इत्यादि । नमस्कार-पूजाफलप्रदाः जिन-सिद्धा न भवन्ति, कोपप्रसादवियुक्तत्वात् , आकाशवत् । ये न[मस्कार]पूजाफलप्रदास्ते कोप-प्रसादवियुता न भवन्ति, यथा नृपादय इति वैधय॑दृष्टान्तः ॥३९५४॥
पूयाणुवकारातोऽपरिग्गहातो विमुत्तिभावातो । दूरातिभावतो वि' य विफला सिद्धादिपूय त्ति ॥३९५५॥
पूयाणुवकारातौ इत्यादि । विफला सिद्धादिपूजा इति कोऽभिप्रायः ! सिद्धाः कृतायामपि पूजायां फलं न प्रयच्छन्तीति पूजयाऽनुपक्रियमाणत्वात् , पूजाया अपरिग्राहित्वात् , विमुक्तत्वात् विगतमूर्त्तित्वात् , आदिग्रहणाद् दूरत्वात् , आकाशवत् । दूरत्वहेतोराकाशेऽन्वयो नास्तीति पृथिवीपर्यन्तजातवृक्षवत् दूरत्वात् फलं न प्रयच्छन्तीति सिद्धोऽन्वयः ॥३९५५॥
अत्र प्रतिविधीयतेजिण-सिद्धा देन्ति फलं पूआए केण वा पव्वणमिणं । धम्माधम्मणिमित्तं फलमिह जं सबजीवाणं ॥३९५६॥
जिण-सिद्धा देन्ति फलमित्यादि । केनैतत् प्रतिपन्नम् 'जिन-सिद्धाः पूजाफलप्रदाः' इति । अनर्थकः प्रतिषेधः-सिद्धसाधनमेतदित्यभिप्रायः । नन्वेतदेहलौकिकभेदनमस्कारफलमुपवर्णितम् , “सत्यमेतदुपवर्णितम् । न पुनर्जिन-सिद्धादिभिरेतद् दीयते कस्मैचित्, न वा कस्यचिदपद्भि(हि)यते । यतश्च कृतधर्माधर्मनिमित्तमेतदुभयमपि फलं-सर्वजीवानाम् ॥३९५६॥
ते य जतो जीवगुणा ततो ण देया प वा समादेया । कतणासाऽकतसंभोगसंकरेगत्तदोसातो ॥३९५७॥ ते य जतो जीवगुणा। तौ च धर्माऽधर्मों पुण्य-पापाख्यौ, तन्निमित्तं सुख-दुःखं १ यणो को है त । २ बर्ष हे व । ३ वा विफ हे त ।