________________
७७४
विशेषावश्यकभाष्ये [नि० ७२०पुव्वाणुपुन्धि ण कमो इत्यादि । पूर्वानुपूर्वी तावदियं न भवति, सिद्धाधनभिधानात् । सिद्धाशु(द्धास्तु) कृतार्थत्वात् प्रधान(नाः), प्रधानस्य चाभ्यहिंतत्वात् पूर्वाभिधानमिति पूर्वानुपूर्वीक्रमाभावः । अथेयमुत्क्रमतः पश्चानुपूर्वीत्युच्यते, साऽपि चैवं न घटते, सर्वपाश्चात्या अप्रधानत्वात् साधवः, अतस्तानभिधाय सिद्धाः पर्यन्ते यद्यवक्ष्यन्त ततः पश्चादनुपूर्वोति ॥३९३६॥
तमभावयिष्यत्जेण कतत्था सिद्धा ण जिणा सिद्धातितो कमो जुत्तो । पच्छाकमो व जति संजतातिसिद्धावमाणातो ॥३९३७॥
जेण कतत्था सिद्धा इत्यादिर्गतार्था ॥३९३७।। नं च जिणाण वि पुज्जा सिद्धा जं तेऽभिणिक्खमणकाले । कतसिद्धणमोक्कारा करेन्ति सामाइयं सव्वे ॥३९३८॥
जंच जिणाण वि पुज्जा । जिनानामर्हता निष्कमणकाले मङ्गलार्थमादौ सिद्धनमस्कारः । अतोऽवश्यमर्हतां पूज्यतमाः सिद्धाः, तैर्नमस्क्रियमाणत्वात् , आचार्यादीनामिव शेषाणामहन्तः । तस्मात् सिद्धादिर्नमस्कारः कर्त्तव्यः, तत्प्रधानत्वात् , परिषत्-राजनमनसम्भवे राजादिनमनवत् ॥३९३८॥
एतदसिद्धत्वोद्भावनायाहअरहंतुवदेसे[२५९-१०]] सिद्धा गज्जन्ति तेण अरहाती। ण पि कोइ वि परिसाए पणमिचा पणमते रणो ॥७२०॥३९३९॥
अरहंतुवदेसेणं इत्यादि । सिद्धास्तावदस्मदादिप्रत्यक्षागम्यास्तत एव चानुमानाविषय इत्यागमगम्या एव । स चागम आप्तप्रणीतः शब्दः । आप्ताश्च राग-द्वेषाऽज्ञानपरिक्षयादहन्तः, तदुपदेशात् सिद्धास्तित्वबुद्धिरेवेति तावत् प्रकाशनात् प्रधानमर्हन्त एव न सिद्धाः इति 'तप्रधानत्वात्' इत्यसिद्धो हेतुरिति । अतः अहंदादिरेव नमस्कारः, तत्प्रधानत्वात् , परिषत्-राजा(ज्ञा) सन्निधाने राजादिनमस्कारवत् । एवं तानादिनमस्कारः प्राप्तः, तत्प्रधानत्वात् , पूर्ववत् ॥३९३९॥ ___ कथं तत्प्रधानत्वमिति चेत् ? अत इयं गाथा
'छक को है, पुठवो क्कत। २ तेसि णि' को हे, तेसि णि त । ३ निकम कोहे। दीमा५ य को, ६५ है हा। ६ 'नापि कश्चित् परिषदे प्रणम्यका - मति ए" ०० ० पृ. ११३४ गाथा ३२१३ ।