________________
विशेषावश्यकभाष्ये।
[नि० ६७७साधम्ममत्थि। एवं तीलाब्वेरण्डफलाग्निधूमशरचक्रादिदृष्टान्तसाधर्म्यात् तद्गतिपरिणामवद् मूर्तत्वमपि सिद्धस्य सर्वसाधा(त्) प्राप्नोतीति इष्टविघातकृद् विरुद्धः, तच्च न, सर्वप्रवादिनामात्मपदार्थस्य जीवस्यामूर्तत्वसिद्धेरभ्युपगमविरोधात् । विरुद्धो ह्यसति बाधने चोद्यते, इह चाभ्युपगमेन बाधाऽस्तीति न विरुद्धः । अपि च, देशसाधादेव दृष्टान्तो भवति, अन्यथा सर्वसाधम्ये ‘स एव सः' इति द्वितीयवस्त्वभावात् दृष्टान्ताभाव एव ॥३७७०-७१॥
अत इयं गाथाजति व ण देसोवणयो दिढतो तो ण सव्वधा 'जुत्तो। जं णत्थि वत्थुणो वत्थुणा जए सव्वसाधम्मं ॥३७७२॥
जति व ण देसोवणयो। गतार्था ॥३७७२॥ उड्ढगतिहेतुतो चिय णाधो-तिरियगमणं ण वाऽचलता । सविसेसपच्चयाभावतो य सव्वण्णुमततो य ॥३७७३॥
उड्ढगतिहेतुतो च्चिय । एवं सिद्धः सन्न अधोगमिष्यति, न चा(च) तिर्यक्, न चातत्र(चात्र) स्थापवा(स्थायिता) वलि(भवि)ष्यति, ऊर्ध्वगतित्वात्, पूर्वप्रयुक्तानुपरतसंस्कारत्वात्, अग्न्यादिचक्रादिवत् । अथवा एवमेव गमनं सिद्धस्य सत्यम् , सर्वज्ञार्हत्प्रोक्तत्वात् , उत्पाद-व्यय-ध्रौव्यस्वभावाङ्गुलिद्रव्यवत् अग्न्यौष्ण्यवद् वा ॥३७७३॥
गतिमत्ततो विणासी केसी गच्चागतीय मणुओ व्व। होतु गतिपज्जयातो णासी ण तु सव्वधाऽणु च ॥३७७४॥
गतिमत्ततो विणासी इत्यादि । विनासी(शी) सिद्धः, गतिमत्त्वात् , मनुष्यवत् । तथा क्लेशी गत्यागमवांश्च, गतिमत्त्वात् , मनुष्यवत् । अत्रोच्यते, अविनाशी-नित्यत्वात्-परमाणुर्गतिमान् दृष्ट इत्यनैकान्तिकः ॥३७७४॥
केसणिमित्तं कम्मं ण गती तदभावतो तो कत्तो। अध गतिरेव णिमित्तं किमजीवाणं तओ णत्थि ॥३७७५॥
केसणिमित्त कम्म ण गती इत्यादि । न हि गतिः क्लेशकारणम् , किं तर्हि ? कर्माणि, तानि च तस्यापगमा(ता)नीति न क्लेशवान् । अथ गतिरपि क्लेश एवेति, ततोऽनैकान्तिकः । अजीवाः पुद्गलाः गतिमन्तो दृष्टाः, न च ते क्लेशिन इत्यनैकान्तिकः ॥३७७५॥
अथेयमाशङ्का१ सिद्धो हे त । २ गमीय को हे, गच्छागमी य त । ३ होइ को हे त।