________________
७४४ विशेषावश्यकभाष्ये
[नि० ६७६यवत् । अत्र भण्यते-अपर्यवसितत्वं नाम किमुच्यते ? यावान् हि यस्य कालः स तावन्तं स्थितिकार(ल)मनुभवतीति । केवलज्ञान-दर्शनव्यतिरिक्तानां शेषा(षोज्ञान-दर्श. नानाम् मतिज्ञानादीनां च चक्षुर्दर्शनादीनां च स्वात्मस्थितिकालानां स्थानं षट्षष्टिः सागरोपमाणि सातिरेकाणि लब्धि प्राप्याऽविच्छेदेनावस्थानम् अपर्यवसितत्वं दृष्टम् । अथवा उपयोगविच्छेदः । सिद्धम् इत्यनैकान्तिक[व]म्-न यावत(न्तं) कालं यस्य सत्त्वं तस्य तावन्तमेव कालमुपयोग इति सत्त्वं विद्यमानत्वं लब्धिः उपयोगकारणं न भवतीत्यनैकान्तिकोऽयम् ॥३७२०॥
तत इयं गाथाठितिकालं जध सेस ईसण-णाणाणमणुवयोगे वि। दिहमवत्थाणं तप ण होति किं केवलाणं पि ॥३७२१॥
ठितिकालं जध सेसदसण-णाणा । भावितार्था । तथा चोपयोगविच्छेदो भविष्यति, केवलज्ञान-दर्शनयोः लब्धि प्रति स्वस्थितिकालं समवस्थानात् , शेषदर्शनज्ञानवत् ॥३७२१॥
णणु सणिधणत्तमेवं मिच्छावरणक्खयो त्ति व जिणस्स । इतरेतरावरणता अधवा णिकारणावरणा ॥३७२२॥
णणु सणिधणत्तमेवं इत्यादि । नन्वेवमिष्टविघातकृद्धर्मविशेषविपरीतसाधनो विरुद्धोऽयं विरुद्धः । परार्थाश्चक्षुरादयः, संघातत्वात् , शयनासनाद्यङ्गवदिति । यथा शेषज्ञान-दर्शनवत् केवलज्ञान-दर्शनयोरपि सनिधनत्वं प्राप्नोति, अनिष्टं चैतत् । अवं ब्रूयाः, उपयोगं प्रति सनिधनत्वं भवत्वेचे (वतु, एतच्चे)ष्टमेव साध्यते । नेष्टविघातकृत् , सिद्धसाधनत्वात् । एवं तर्हि 'सर्वावरणक्षयो जिनस्य' इति, मिथ्यैतद् वचनं प्राप्नोति, ततश्चागमविरोध इति चोदितं भवति । अथ 'सर्वथा ज्ञानावरणप्रक्षयात् केवलज्ञानदर्शनसंभवः' इत्येतावता प्रतिपन्न एवावरणक्षय इति पुनस्तस्योदयाभावाद्भवतोऽपि सावरणत्वं चोदयतोऽनिष्टमेवेदाम्], स्वघातित्वदोषाच्च नैव चोदनीयम् । ततश्चोदको ब्रवीति-नैवोच्यते केवलज्ञानावरणकर्मण उदय इति, किं तर्हि ! इतरेतरावरणता प्राप्नोतीति-दर्शनं ज्ञानेन व्यवधीयते, ज्ञानं च दर्शनेनेति । अथवा अत्यन्तविशुद्धस्वभावत्वादुभयमपि नावरणम् , प्रकाशवत् । एवं तर्हि निष्कारणमेवावरणं ज्ञानोपयोगविच्छेदाद् दर्शनोपयोगविच्छेदाच्चेति ॥३७२२॥
तुलनीयमत्र "शेषज्ञान-दर्शनानाम्" इत्यादिकं विवरणम्-मलधा० हे. वृ० मु. पृ० • १२०१ मा ३१०१।नियर्टि' को । ३ °सद को हे। 'रणं को हेत।