________________
नि० ६७६ ]
वस्तुद्वारम् ।
एगतराणुवयुते तदसव्वण्णुदरिसित्त' ण तं च । भणति छतुमत्थव समाणमेगंतरं सव्वं ॥ ३७२३॥
७४५
एगतराणुवयुत्ते इत्यादि । एकतरस्मिन्ननुपयुक्ते केवलिजिने असर्वज्ञत्वम्-दर्शन - पयोगकाले ज्ञानानुपयोगात्, असर्वदर्शित्वं च ज्ञानकाले दर्शनानुपयोगात् । तच्च नेष्टम्, सर्वज्ञत्वात् सर्वदर्शित्वाच्च केवलिजिनस्येति । अत्र भण्यते, समानमेतद्भवतोऽपि-छग्नस्थस्य दर्शनोपयुक्तस्य अज्ञानत्वम्, ज्ञानोपयुक्तस्य चाऽदर्शनत्वम् । इष्यते छद्मस्थस्स(श्च) व्यवहारनयात् सम्यग्दृष्टिर्ज्ञानवांश्च निरन्तरम्, नैक (कै) कान्तरितमिति । यश्वोभयोर्दोषः न तमेकश्चोदयेदिति ॥ ३७२३॥
अथ मन्यसे—
सव्वक्खीणावरण अध मण्णसि केवली ण छतुमत्थो । उभयोवयोगविग्घो तो छतुमत्थस्स ण जिणस्स ||३७२४॥
सव्वक्खीणावरण इत्यादि । अथैवं मन्यसे उमस्थस्य ज्ञानावरणं दर्शनावरणं च कर्म युगपदुपयोगविघ्नो युक्तः, केवलिनत् (नः) पु[नः] सर्वक्षीणावरणस्य न युक्त उपयोगद्वयविध्न इति, निरावरणत्वात्, सूर्यप्रकाश-प्रतापवृत्तिद्वयवत् ॥३७२४॥ अत्र प्रतिविधीयते
देसक्खये अजुतं जुगवं कसिणोभयो ओगि त्तं । देसोभयोवयोगो पुणाइँ पडिसिज्झते किं से || ३७२५॥
देसक्ख इत्यादि । छद्मस्थ[स्य ] क्षयोपशम समुत्थापितज्ञान- दर्शनस्य देशक्षये देशावरणे च कृत्स्नज्ञान- कृत्स्नदर्शनात्मक एककाले सावरणत्वात् न युक्तः उपयोगः, यावांस्तु क्षयोपशमस्तस्य ज्ञान-दर्शनयोः तावत्येवैकदेशे ज्ञान-दर्शनयोरुपयोगस्तस्य किमिति निषिध्यते ? नावरणं निवारकं युगपद्भावस्य सर्वप्रकाशस्य तु निषेधकं भवतु, आवरणस्वभावत्वात् । दृष्टं च छद्मस्थस्य देशविषयं ज्ञानं दर्शनं च क्रमेण सामान्यविशेषावबद्धस्वरूपत्वात् । तस्मात् क्रमेण ज्ञान-दर्शनत्वं जीवस्य स्वभाव एवेति ॥ ३७२५॥
अघ जम्मि णोवयुत्तो तं णत्थि ततो ण दंसणादितिए । अस्थिजुगवो [२४५ - द्वि०]वयोगो त्ति होतु साधू कथं विगलो ! ॥ ३७२६ ॥
अ जम्मि गोवयुत्त । अथैवं मन्येथाः, क्रमज्ञान- दर्शन: केवली यस्मिन्नेव नोपयुक्तस्तत् तदानीं नास्त्येव, यस्मिन् पुनरुपयुक्तः तदेवास्तीति । अस्मिन् पक्षे प्रमाणं
१ °रिक्षणत्तणं न तं च को । 'रिखित्तण न तं च हे वृ० मु० पृ० १२०३ । रिसत्तण म तं चत। २ 'तरे को है त । ३ °भोग तित । ४ °इ को है । ५ देशशब्दः अंशसूचकः ।