________________
विशेषावश्यकभाष्ये
[ नि० ६७६
जध वा स एवेत्यादि । अथवा कश्चित् कदाचिद् भव्य (व्यः) सर्वकर्मवियोग्योऽपि (गेयोग्योऽपि तद्वियोगक्रियां नावाप्स्यति, असंप्राप्तयोग्य साधनसमायोगत्वात्, सर्वपुरुषाऽविषयविषमप्रदेशावस्थित सुवर्णविभागयोग्य कनकपाषाणवत्, यदि नाम सा सम्पत्तिर्भवेत् ततो योग्य एव वस्तुनि, नायोग्ये खरपाषाणे ॥३७०६॥
तत आह
किं पुण जा संपत्ती सा जोग्गस्सेव ण तु अजोग्गस्स । त जो मोक्खो णियमा सो भव्वाणं ण इतरेसिं ॥ ३७०७ ॥
किं पुण जा संपत्ती इत्यादि । अभव्यस्य साधनसम्पत्तिरेव न सम्भवति दर्शनादिका, तदयोग्यत्वात्, एरण्डदास्वत् खरपाषाणवद्वा ॥ ३७०७ ॥ एवं गतं प्रासङ्गिकम् । प्रकृतमेवोच्यते
७४०
रिजुसेटिं पडिवण्णो समयपदेसतरं असमाणो । एसमएण सिज्झति अध सागारोवजुतो सो || ३७०८ ||
रिजुसेटिं पडिवण्णो । योगनिरोधप्रपन्नसंकोचितशरीरान्तर्वृत्त जीवप्रदेशघनदण्डबाहुल्यप्रमाणां ऋज्वीमा काशश्रेणीमूर्ध्वायतां लोकान्तगामिनीं प्रपन्न ऊर्ध्वाभिमुखां प्रस्थितः "अफुसमाणगईए एगसमये सिज्झइ " [ ] इती (ति)। अस्पृशन् (द्)ज (ग) तेर्व्याख्यानम् - समयान्तरं न स्पृशति - येन समयेन प्रस्थितस्तेनैव समयेन लोकान्तमाप्नोतीत्यर्थः । तथा च तद्भवशरीरत्यागः, ऊर्ध्वगमनम्, भव्यत्वविगमः, सिद्धत्व पर्यायोद्भवः, लोकान्तप्राप्तिरिति । एताः क्रियाः एकसमये निर्वर्त्यन्ते, सिध्यत्काले च साकारोपयोगयुक्तोऽसौ सिध्यतीति ॥ ३७०८ ||
किं कारणम् ? यस्मात् -
सव्वाओ लद्धीओ जं सागारोवयोगलाभाओ ।
तेणेह सिद्धलद्धी उप्पज्जति तदुवयुत्तस्स || ३७०९ ॥
सव्वाओ लद्धीओ इत्यादिः स्फुटार्था । एवं चानेन वाक्येनान्यदपि सिद्धं सिद्धानाम्-तरतमयोगोपयोगता, अयुगपदुपयोगत्वमिति, युगपदुपयोगे स (सा) कारोपयोगविशेषणानर्थक्यमिति ॥३७०९ ॥
तत इयं गाथा -
-
१ संशोधितः पाठः मूलपाठानुसारी । २ 'डी' को हे त । ३ अपु० जे । ४ साग है । अत्र कोटपा • वृत्तौ एतद्विशेषणविषये भयमुल्लेख:- " अस्माच्च आर्यश्यामप्रणीतात् साकारोफ्योगविशेषणात् " मु० पृ० ८७६ । द्रष्टव्यमत्र मलबा • हे०वृ० मु० पृ० ११९७ गा० ३०८९ ।