________________
७३४ विशेषावश्यकभाष्ये
[नि० ६७६चरमश्चेति पूरणप्रत्ययलोपं कृत्वा द्विचरमः । एकस्मिन् मुख्ये चरमे प्रसिद्ध द्वितीय औपचारिको भवति-चरम इव चरमः, चरमसहचारित्वात् , अनन्तरत्वात्। स चौपचारिको मुख्यस्य द्वितीयो भवति, गौणमुख्यस्य द्वयविकल्पनात् तृतीयविकल्पाsसम्भवात् ॥ ३६८३ ॥
ओरालियादि' सव्वाहि जहति विप्पजहणाहि जं भणितं । णिस्सेसतया ण जघा देसच्चारण सो पुव्वं ॥३६८४॥
ओरालियादि सब्बाहि इत्यादि । औदारिकादीनि शरीराणि चरमसमये त्यजति । सव्वाहि विप्पजहणाहि । 'ओहाके(क्) त्यागे' 'वि'शब्द-'प्र'शब्दोपपदस्य जहातेस्त्यागार्थस्य करणे 'ल्युट्'भावे विशेषेण त्रिविधम् प्रकर्षतश्च हीयते अनेनेति शुक्लध्यानं करणम् विप्रहायण(हाण)म् , भावो वा हानम्-त्यागक्रिया तदुपयोगः केवलज्ञानाख्यः सर्वविप्रहाणं निःशेषतः, न यथा पूर्व संघात-परिशाटाभ्यां देशत्यागतः। अथवा स्त्रीलिङ्गे भावे 'क्तिन्' सर्वात्मना विप्रहाणिः-सर्वत्यागः-तया सर्वविप्रहान्या(ण्या) त्यजति जातिनिर्देशात् अथवा भेदापेक्षया व्यक्तिविशेषनिर्देशः सर्वाभिविप्रहाणी(णि)भिरिति ॥ ३६८४ ॥ तस्सोदइयातीया भवत्तं च विणिवत्तते समयं ।
सम्मत्तणाणदंसणमुहसिद्धत्ताई मोत्तूण ॥३६८५॥ . तस्सोदइयातीया इत्यादि । तस्येदानी चरमसमयक्षये पारभविकाः संयोगजाः परिणामा औदयिका भावाः, भव्यत्वं चानादिपारिणामिकभाव(वो) युगपद् व(वि)निवर्तन्ते, औदयिकाद्वि(दि)भावग्रहणा(णे) आदिशब्दस्तव(सूच)नात् क्षायिकभावस्यापि विनिवृत्तिः प्रसक्ता स्वाभाविकपरिणामत्वादपवादेन निवय॑ते । मुक्त्वा स्वाभाविकानि सम्यक्त्व-ज्ञान-दर्शनाद्या[नि] याव(वत् )सिद्धत्वानि शेषभावानां सापेक्षपरिणामत्वाद् विगम इति स्थितम् ॥३६८५ ॥
अथेदानी चोचतेDणु संताणोऽणादी परोप्परं हेतुहेउभावातो। देहस्स य कम्मस्स य भणितो बीयंकुराणं व ॥३६८६॥
'याई त । २ चयइ को हे त । ३ मग त। ४ ‘णणु संताणो' इत्यादि ३६८६ गाथातः किं पुण जा' इत्यादिकाः ३७०७ पर्यन्ता द्वाविशतिर्गाथाः त प्रतौ न सन्ति । एतद्विषये मलबारिवृत्तौ (पृ. ११९. गा० ३०८७ अनन्तरम्) अयं निर्देश:-"मनु संताणोऽणाई इत्यादिद्वाविंशतिगाथाः, एताश्च पूर्व षष्ठगणधरे प्रायो लिखिताः व्याख्याताश्चेति नेह लिख्यन्ते ।"