________________
७३३
विशेषावश्यकभाष्ये
[ नि० ६७६पुव्वप्पयोगतो वि य कम्मविणिज्जरहेतुतो 'आवि । सहत्थबहुत्तातो तध जिणयंदागमातो य ॥३६७७॥ चित्ताभावे वि सता मुहुमोवरतकिरियाई भण्णंति । जीवोवयोगसम्भावतो भवत्थस्स झाणाई ॥३६७८॥
पुवप्पयोगतो वि य । चित्ताभावे वि सता। अधुना केवलिनो योगनिरोधकाले चोपरतव्यापारस्यापि ध्यानानुवृत्तिरस्तीति प्रतिपत्तव्यम् , पूर्वप्रयोगसंस्कारान्वितत्वात् , कुम्भकारप्रयुक्तचक्रभ्रमणव्यापारीपरमेऽपि चक्रभ्रमणानुवृत्तिवत् । अथवा अन्यथा प्रतिज्ञा-यो वा निरोधोऽपि ध्यानमेव, कर्मविनिर्जरणहेतुत्वात् , उभयसिद्धः(ख)छमस्थध्यानवत् । अथवा 'ध्यै चिन्तायाम्' इति अर्थपाव(ठ)स्योपलक्षणमात्रत्वात् अनेकार्थत्वाद्धातूनाम् ध्यै'धातुर्योगनिरोधेऽपि शिष्टप्रयोगादवसातव्यः, सर्वशब्दानां वा सर्वार्थत्वात् सर्वार्थानां च प्रत्येकं सर्वशब्दाभिधेयत्वात् ध्यानशब्दो योगनिरोधेऽपि द्रष्टव्यः । सर्वत्र च शब्दार्थसम्बन्धे शिष्टप्रयोग एव शरणमिति । सर्वशिष्टेभ्योऽपि गरीयस्सर्वज्ञानदर्शनात् ज्योत्स्नाविततमूर्तेजि(र्जि)नचन्द्रात् किरणसमूह इवायमागमो विनिःसृत इति प्रमाणम् । चिन्ता(ता)भावेऽपि निरुद्धयोगत्रयस्य सूक्ष्मक्रियाप्रति [पाति] व्युपरतक्रियानिवृत्तिवद् द्वितयमपि ध्यानमिति सत्यं वचः, सर्वज्ञजिनाभिहितत्वात् "उपयोगलक्षणो जीवः" इति वचनात् ॥३६७७-७८ ॥
जति अमणस्स वि झाणं केवलिणो कीस तं ण सिद्धस्स । भण्णति जण पयत्तो तस्स जतो ण य गिरोद्धव्वं ॥३६७९॥
जति अमणस्स वि झाणं । एवं तहिं अन्यदनिष्टं प्राप्तम् । सिद्धस्यापि ध्यानं प्राप्नोति, अमनस्कत्वात् , शैलेशीजिनस्येव । उच्यते, नाऽयमविशेषण एव हेतुः केवलिनो ध्यानसद्भावे भण्यते, अनैकान्तिकत्वभयात् । तथा च ध्यानरहितेष्वेकेन्द्रियादिषु निर्विशे[षणः अमनस्कत्व']हेतुर्वर्त्तत इति विपक्षेऽपि भावादनैकान्तिकः । अतो विशेष्यते'अनन्तवीर्यप्रयत्नवत्त्वे सति योगत्रयसम्बन्धे च सति अमनस्कत्वात्' इति । सविशेषणश्च सिद्धस्य पक्षधर्मो न भवति, न चैकेन्द्रियादौ विपक्षे सम्भवति । तस्मात् सिद्धस्य ध्यानसाधनाभावाद् ध्यानाभावः । एवं शैलेशीप्राप्तस्य परमशुक्लं(क्ल) ध्यानयोगाचथा कर्मनिर्जरणं भवति, यस्मिश्च प्रतिविशिष्टे समये यावत् कर्म निर्जीर्यते तदन्ते च यथा सर्वक्षय इति ॥ ३६७९ ॥
वाविको हेत। २ पूर्वोपयोगसंस्कारा' इति तप्रतौ । ३ व्यापारोपरमे इत्यर्थः । १ध्ये अन्दो धा इति त प्रतौ। ५° क्रियाप्रतिव्युपरतक्रियानिवृत्ति इति त प्रतौ। ६ "उपयोगो लक्षणम्" तित्त्वार्थ २, २० ८] इति वचनम् । ७ °षेणोपगमस्कन्धहेतुर्व इति त प्रतो ।