________________
नि० ६७६ ]
७३१
वस्तुद्वारम् ।
आहाऽभावे मणसो इत्यादि । तदेव (वं) केवलिनो ध्यानं कायनिरोधात्मकं न युक्तं प्रतिपत्तुम्, मनसोऽभावे अभूतध्यानार्थत्वात्, असंज्ञिजीवस्येव । अथवा ध्यानार्था - भावेऽपि केवलिनः काय निरोधात्मक ध्यानमिष्यते, एवं तर्हि सुप्तस्यापि ध्यानं भवतु, अभूतध्यानार्थत्वात् केवलिन इवेति ॥ ३६७२ ॥
अध व मती सुतस्त हि ण कायरोधप्पयत्तसन्भावो । एवं चित्ताभावे कत्तो व तओ जिणस्सावि ? || ३६७३॥
अ व मती इत्यादि । अथ मतिरेवं स्यात् सुप्तस्य मनोव्यापाराभावात् कायनिरोधप्रयत्नाभावः, ततश्च कार्यनिरोधप्रयत्नजध्यानाभावः सुप्तस्य, अविमनस्क - त्वात्, शोकार्त्तजीवत् । एवमप्यनिष्टमापद्यते भवतः - जिनस्यापि कायनिरोधात्मकध्यानाभावः प्राप्तः, विमनस्कत्वात् सुप्तवत् ।। ३६७३ ॥
अपि च
होज्ज व किंचिम्मत्तं चित्तं सुत्तस्स सव्वधा ण जिणे ।
जति सुत्तस्स ण झाणं जिणस्स तं दूरतरणं || ३६७४ ।।
होज्ज व किंचिमत्तं । सुप्तस्य किञ्चिन्मात्रं चित्तमप्यव्यक्तं भवेत्, जिनस्य तु सर्वथा चित्ताभावः । ततः सुतरां तस्य ध्यानाभावेन भवितव्यम्, अचित्तत्वात्, घटवत् ॥३६७४॥
जुत्तं छतुमत्थस्स [२४२ - प्र० ]करणमेताऽणुसारिणाणस्स । तदभावम्मि पयत्ताभावो ण जिणस्स सो जुत्तो ॥ ३६७५॥ छतुमत्थस्स मणोमेत विहितजत्तस्स जति मतं झाणं । tha तं ण जिणस्स मतं केवल विहितप्पयत्तस्स ॥ ३६७६ ॥
जुत्तं जं छतुमत्थस्स । युक्तम्, यत् छद्मस्थस्य करणमात्रानुसारिविज्ञानस्य तदघीनक्षयोपशमत्वात् मनसो भावात् प्रयत्नाभावः ततश्च कार्यनिरोधकरणाशक्तत्वात् तदात्मकध्यानाभावः । केवलिनस्तु करण निरपेक्षज्ञानस्य सर्वदोपयोगसद्भावात् कायनिरोधप्रयत्नाभावो न युक्तः प्रतिपत्तुम्, अनन्तवीर्यत्वात् । ततश्च केवलिनः कायनिरोधप्रयत्नजं ध्यानं प्रतिपत्तव्यम्, स्वानुरूपज्ञानविहितप्रयत्नत्वात् छद्मस्थस्य ज्ञानप्रयत्ननिरुद्धमनोविषयध्यानवत् ॥ ३६७५-७६ ॥
१ य हे त । २ रपर' जे ।
९२