________________
नि०६७६ ] वस्तुद्वारम्।
৬২৩ ण किर समुग्घातगतो। किल' शब्द आगमप्रदर्शनार्थः । समुद्धाते मनोवाग्योगव्यापाराभाव एव, निष्प्रयोजनत्वात् , कारणाभावाच्च । शरीराद् बहिरिति काययोगव्यापारः केवलः, तत्र प्रथमाष्टमसमययोरौदारिककायव्यापारप्राधान्यादौदारिक एव योगः, द्वितीय-षष्ठ-सप्तमसमयेषु शरीरे चौदारिके तस्माच्च बहिः कार्मणशरीरे वीर्यपरिस्पन्दादौदारिक-कार्मणमिश्रकाययोगः, त्रि-चतुर्थ-पश्चमेषु तु बहिरेव शरीरात् बहुतरप्रदेशव्यापारात् कार्मणकाययोगः एवं(व), केवलतन्मात्रचेष्टनात् ॥३६५२-५३॥ [२४०-द्वि.] विणिवित्तसमुग्घातो तिणि वि जोए जिणो पयुंजेज्ज । सच्चमसच्चामोसं च सो मणं तह वयी जोगं ॥३६५४॥
विणिवित्तसमुग्घातो । विनिवृत्तसमुद्घातस्तु कारणवशा(शात्) योगत्रयमपि व्यापारयेत् । तत्रापि मनो-वाग्योगयोः प्रत्येकं भेदचतुष्टयसंभवे द्वयोरपि द्वावेव भेदौ प्रयुङ्क्ते-सत्यं वा असत्याऽमृषा वा, नेतरौ द्वौ-मृषा सत्या(त्य)मृषात्मकं वा ॥३६५४॥
ओरालियकायोगं गमणाती पाडिहारियाणं वा । पच्चप्पणं करेज्जा जोगणिरोधं ततो कुरुते ॥३६५५॥ ओरालियकायोगमित्यादिः स्फुटाथैव ॥३६५५॥ किष्ण सजोगो सिज्झति स बंधहेतु त्ति जं सजोगो य । ण समेति परममुक्कं स णिज्जराकारेणज्झाणं ॥३६५६॥
किण्ण सजोगो इत्यादि । किमर्थं योगनिरोध इति ! उच्यते, मोक्षार्थिना अवश्यमेव निरोद्धव्याः योगाः, मोक्षविघातित्वात् , मिथ्यादर्शनादिवत् । मोक्षविघातित्वं कथमिति चेत् ? सैयोगः किन्न सिध्यतीति प्रश्नः । मोक्षविघातिनो योगाः, बन्धहेतुत्वात् , मिथ्यादर्शनाऽविरत्यादिवत् । अन्यच्च सयोगे न परमनिर्जराकारणं परमशुक्लं ध्यानम् --अत्यन्ताऽप्रकम्पता-अवाप्यते, योगापगमाच्च तद् लभ्यते इति मोक्षकारणकारणत्वानु(त्वात् तु) योगनिरोधः कर्त्तव्यः, परमशुक्लध्यानवदिति ॥३६५६॥
तस्य च योगनिरोधस्य प्राग मनोयोगनिरोध इति तमेव प्राग् निरूपयतिपज्जत्तमेत्तसण्णिस्स जत्त्यिाइं जहण्णजोगैस्स ।
होन्ति मणोदवाई तव्वाचारो य जम्मतो ॥३६५७॥ १रण जे त । २ सभोगः इति त प्रतौ । ३ 'जोगि' को हे त । °म्मित्तो को है।