________________
विशेषावश्यकभाष्ये
[नि० ६७
आवज्जणमुवयोगो । आवर्जनमावर्जः - अभिमुखीकरणम् - अभ्यासनयनम्उदयावलिकायां प्रक्षेपः । अनावर्जस्याभूततद्भावात् विः (द्वि:) आवर्जीकरणम्, तत्रोपयोगः तद्व्यापारः, स च समुद्घातगमनाय तदादावन्तर्मुहूर्त्तमात्रं भवति, ततः समुद्घातं गच्छति ॥ ३६४९॥
तस्य चायं क्रमः —
૭૨૬
उड्ढा हायतलोगतगामिण सो सदेहविक्खम्भं । पढमसमयम्मि डंडे करेति बितियम्मि य कवाडं || ३६५० ॥
उड्ढाहायतलोगंतगामिणं इत्यादि । तत्र प्रथमसमये स्वदेहविष्कम्भतुल्यविष्कम्भम् ऊर्ध्वमधश्चायतं उभयतोऽपि लोकान्तगामिनं जीवप्रदेशसंघातदण्डं दण्डस्थानीय केवलज्ञानाभोगतः करोति, द्वितीयसमये तमेव दण्डं पूर्वापर दिग्द्रयप्रसार'त् पार्श्वतो लोकान्तगामिकपाटं करोति || ३६५० ॥ ततियसमयम्मि मंथं चतुत्थए लोअपूरणं कुणति । पडिलोमं साहरणं कर्तुं तो होति देहत्थो || ३६५१ ॥
ततियसमयम्मि मंथं इत्यादि । तृतीयसमये तदेव कपाटं दक्षिणोत्तरदिग्प्रसारणात् मन्यसदृशं मन्थानं करोति लोकान्तप्रापितमेव । एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराण्यपूरितानि अनुश्रेणिगमनात् । चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति । ततश्च सकलो लोकः पूरितो भवति । तदनन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्थानान्तराणि संहरति, जीवप्रदेशान् सकर्मकान् संकोचयति, षष्ठे समये मन्थानमुपसंहरति, घनतरसंकोचः, सप्तमे समये कपाटमुपसंहरति दण्डात्मनि संकोचात्, अष्टमे समये दण्डमुपसंहृत्य देहस्थ एव भवति - देहप्रमाणसंकोच इत्यर्थः ॥३६५१॥
"तस्येदानीं समुद्धात गतस्य योगव्यापारश्चिन्त्यते - ते च मनोवाक्काययोगास्त्रयः, तेषां कः कदा व्याप्रियते ? ये (ए) ते उच्यन्ते -
ण फिर समुग्धातगतो मण-वहयोगप्पओयणं कुणति । ओरालियजोगं पुण जुंजति पढम हमे समए ॥ ३६५२ ॥ उभयव्वावारातो त मीस बितिय छद्ध-सत्तमए । तिचउत्थ- पंचमे कम्मयं तु तम्मचचेद्वातो || ३६५३ ॥
१ 'वाय' जे ।