________________
नि० ६७६] वस्तुद्वारम् ।
७२५ ... कम्मलहुताय समयो इत्यादि । कर्मभिलघुता-कर्मलघुता अनन्तरभाविनीति भाविनि भूतवदुपचारं कृत्वा अनागते समुद्घाते कर्मलघुतोका। तस्याः कः कालः ! कियत्यायुषि शेषे समुद्घातं जिनाः प्रतिपद्यन्त इति ! केचिदाहुः "भिन्नमुहू
विशेषायुप्कस्येति भिन्नमुहूर्ताव[शेष] कालः" । अन्ये पुनराहुः "सत्यम् , स तु सर्वजघन्यः, नत्वयमेव नियमः किन्तु यतः षण्मासावशेष उत्कृष्टं कालः" इति ॥३६४६॥
तच्च तेषां षण्मासावशेषायुष्ककालवादिनामाचार्याणां स्वागमेनैव वचन विरुध्यते इति निवारयन्नाह
तं णोऽणन्तरसेलेसिवयणतो जं च पाडिहारीणं । पच्चप्पणमेव सुते इधरा गहणं पि होज्जाहि ॥३६४७॥
तं णोऽणन्तरसेलेसिवयणतो इत्यादि । तं(तद्) नेति, कुतः ! आगमविरुद्धत्वात् । स चायमागमः- समुद्घातानन्तरं शैलेशीप्रतिपत्ति काल इति पञ्चहस्वाक्षरकाला शैलेशी, ततो मोक्ष एव [इति] कथं समुद्घातं षण्मासावशेषायुगच्छेदिति ! अन्यदपि वचनान्तरम्-समुद्घातप्रत्यागत्या समुपसंहृतात्मा देहमात्रे स्थित्वा प्रत्याहरणीयगृहीतफलकादिप्रत्यर्पणं करोति शैलेशि(शी) प्रतिपत्तुः(तु)कामः निःसङ्गोऽहमिति । यदि तु समुद्धातप्रत्यागतस्यापि दीर्घमेवायुष्कं षण्मासमात्रम् ततः प्रत्याहरणीयफलकादिग्रहणविधिरप्युक्तोऽभविष्यत्, न चोक्त(क्तः), . प्रत्यर्पणमेव निःसङ्गताप्रदर्शनार्थमभिहितम् । अतस्तेषामागमविरोधात् षण्मासवचनं 'न' इति स्थापितम् ॥३६४७॥ __ भिन्नमुहूर्त एव विशेषः स्थित इति तत्र समुद्घातशब्दार्थःतत्थाउअसेसाहियकम्मसमुग्यातणं समुग्घातो। . तं गंतुमणो पुव्वं आवज्जीकरणमन्भेति ॥३६४८॥
तत्थाउअसेसाहि० इत्यादि । आयुष्कादवशेषाणि आयुष्कावशेषाणि, तेषां यदधिकं तस्य कर्मणः समुद्घातनम्-प्राबल्येन घातनम्-खण्डनम्-निर्जरणम् । समुद्घातं गन्तुमनाः तं प्रारभमाणः पूर्वमावर्जीकरणमभ्येति ॥३६४८॥
तस्य लक्षणम्आवज्जणमुवयोगो वावारो वा तदत्थमादीयं । अंतोमुहुत्तमेत्तं कातुं कुरुते समुग्घातं ॥३६४९॥ १ णा हे । ना त। २ हेराणं को हे, हरीणं त ।