________________
७२४
विशेषावश्यकभाष्ये
[नि० ६७६
विसमं स करेति समं । विषमं कर्मत्रिकं समं करोति, आयुष्कस्य केन साम्यम् ? बन्धनैः स्थित्या च । तत्र बन्धनानि कर्मद्रव्याणि, तैर्बध्यते रज्जुभिरिव जीव इति । स्थितिः पुनस्तेषामेवावस्था[न]कालः । यस्यैतद् द्वितयं समं स समुद्धातमेव नागच्छति । यस्य तु विषमं स स्थित(ति)कालमेव समीकरोति' न बन्धनानि ॥३६४४॥ यत एवमुच्यते -
आयुअसमयसमाए गुणसेढीय तदसंखगुणिताए ।
पुन्वरइतं खवेहिति जब सेलेसीय पतिसमय ॥३६४५॥ यावदायुष्कं शेषमवतिष्ठते तावद्भिः समयैः समा तेषामपि त्रयाणां स्थितिः। सा च तेषां गुणश्रेणिरुच्यते-असंख्येयगुणाकारगुणेनाभ्यावृत्या गुणश्रेणिरिति । सा चायुष्कसमयसमा कालतः, आयुष्कस्य च प्रथमसमये बहून्यायुष्कद्रव्याणि, द्वितीयसमये स्तोकानि, तृतीयसमये स्तोकतराणि, चतुर्थसमये स्तोकतमानीति परिहाण्याऽऽयुष्कचरिर)मसमये स्तोकतमान्यतिशयेनेति ऊर्ध्वं गोपुच्छाकृति व्यश्रि क्षेत्र समयबिन्दूपलक्षितम्-2 । एतदेव विपर्ययेण शेषकर्मत्रयस्य अधो गोपुच्छा[कृ]ति व्यश्रि क्षेत्रम्- AAA A यान्यायुष्कस्य प्रथमसमये लिखितानि तत् समालिखित्वा(लिख्य) द्वितीयादिसमयादावायुष्कस्य दी(ही)नसराणीति दी(ही)नतराणीति शेषाणामसंख्येयगुणवृद्धिमन्ति लेख्यानीति । एवं बुद्धिपूर्वमिव शैलेशीप्रतिपत्तिकालात् पूर्वतरं रचितं विशुद्धकेवलज्ञानेन ज्ञात्वा शैलेशीप्रतिपन्नः प्रतिसमयं यथा क्षपयिष्यति तथोन्नेष्यामः । यदुक्तम् -"तध कम्मलहुअसमए वच्चंति जिणा समुग्धातं"[विशेषाभाष्य० वृ० पृ० ७१९ गा० ३६३०] इति ॥ ३६४५ ॥
कर्मलघुतायाः समय(यः) कालः कर्मलघुतासमयः, स किया(योत्प्रमाणः ? इत्याचार्यमतभेदेनोच्यते--
कम्मलहुताय समयो भिण्णमुहुत्तावसेसओ कालो।
अण्णे जहण्णमेत्तं छम्मामुक्कोस[२४०-५०]मिच्छति ॥३६४६॥ 1 भस्य वाक्यस्य स्पष्टीकरणाय दर्शनीयोऽयमुल्लेख:-"स समवहतः केवलिसमुद्धातगतो जोब.....विषम वेदनीयादिकर्मत्रयमपवर्तमानः...आयुष्केण समं करोति । कैः कृत्वा समं करोति ? इत्याह-बध्यते-जीवो यस्तानि बन्धनानि तैर्बन्धनैः कर्मद्रव्यैः, स्थित्या च काललक्षणया" हे. वृ• पृ० ११८७ कोटया वृ० मु. पृ. ८६३-८६१॥ २ अत्रापि वृत्तिकारेण वृत्तौ संपूर्णा माथा निर्दिछ ।३ 'मेयं को हेत।