________________
नि. ६७६]
वस्तुद्वारम् ।
७२३
तम्हा तुल्लठितीयं कम्मचतुक्कं सभावतो जस्स । सो अकतसमुग्घातो सिज्झति जुगवं खवेतूणं ॥३६४०॥ जस्स पुण थोवमायुं हवेज्ज सेसं तियं च बहुतरयं । तं तेण समीकुरुते गंनूण जिणो समुग्घातं ॥३६४१॥ ___ तम्हा तुल्लठितीयं इत्यादि । जस्स पुण थोवमायुं इत्यादि । तस्माद् यस्य कर्मचतुष्क स्वभावत एव तुल्यस्थितिकम् - न प्रयत्नेन समीकृतम् , स्वभावेनैव बद्धमीदृशमिति-स किलाकृतसमुद्घातः सिध्यति युगपत् कर्मक्षयस्य स्वयमेव जाति(तत्वात् । यस्य पुनः स्तोकमायुष्कं भवेत् शेषकर्मत्रिकं च बहुतरम् , स तत् त्रिकं तेनायुषा सह समीकुरुते-स च जिनोऽवश्यमेव केवली मान्यः-गत्वा समुद्धातं वक्ष्यमाणलक्षणम् ॥३६४०-४१॥
कतणासातिविघातो कतो पुरा जध य णाणकिरियाहि । कम्मस्स कीरति खयो ण चेदमोक्खातयो दोसा । ३६४२॥ ___ कतणासातिविघातो इत्यादि । नन्वेवं समुद्घातगमन(ने) जिनानाम् [])कृतागमादयो दोषाः प्राप्नुवन्ति । मा प्रापन् , पुरा अन्यस्मिन् स्थाने तदोषाणां कृतो विधात इति पुनरुक्तभयाद् ग्रन्थगुरुताप्रसङ्गाच्च नेहोपन्यासः । यथा च ज्ञान-क्रियाभ्यां न य(स च) क्रियते तथाप्युक्तम् । अन्यथा चेदं(द)मोक्षादयो दोषाः॥३६४२॥
असमद्वितीण णियमो को थोवं आउअंण सेसं ति । परिणामसभावातो अद्भुक्बन्धो व तस्सेच ॥३६४३॥
असमद्वितीण णियमो। कोऽत्र चोदयति ! यस्याऽसमस्थितीनि कर्माणि तत्र को नियमः ?-अवश्यमेवायुषा न्यूनेन भवितव्यं न पुनः शेषैरिति । उच्यते, बन्धपरिणामस्वाभाव्यात् । अपि च प्रमाणम्- वेद्य-मान(नाम)-गोत्रेभ्यस्त्रिभ्योऽपि स्तोकमायुष्कमेव, स्तोकबन्धकालत्वात् , एकसमयबहुपुद्गलवत् । स्तोकबन्धकालत्वं प्रसिद्धं सिद्धान्ते, अध्रुवबन्धत्वादायुष्कस्येति ॥३६४३॥ विसमं स करेति समं समोहतो बन्धणेहि ठितिए य। कम्मदव्वाई बन्धणाई कालो ठिती तेसि ॥३६४४॥
१ तयं हे त । २ "कृतमाशाकृताभ्यागमदोषविधातश्च" को। मु. वृ० पृ० ८६३ गा. ३६६२ । ३ स्तोकमायुष्कमायुष्कमेव इति त प्रतौ ।