________________
[ नि० ६७६
1
रूपशब्दवत् । तथा विद्यमानार्थविषयः सिद्धशब्दः कचित् प्रतिषिध्यमानार्थत्वात्, ब्राह्मणशब्दवत् । ' नास्ति सिद्ध:' इत्यत्र सिद्धशब्दः विद्यमानार्थः, अनुपचरितशुद्धैकपदत्वे सति प्रतिषेधसम्बन्धित्वात् ब्राह्मणशब्दवत् तथा मुख्यार्थेनार्थवान् सिद्धशब्दः कचिदुपमीयमानार्थत्वात् चन्द्रशब्दवत् । तथा अपरिनिष्ठितसन्तान एव सर्वः पदार्थः, कथञ्चिद्विनाशित्वात् घटवत् प्रदीपवच्च विद्युदादिष्वपि सूक्ष्मपुद्गलसन्तानास्तित्वात् । तथा ‘असिद्धम्' इत्ययमर्थः सत्पदार्थप्रतिपक्षवान्, अभावत्वात्; अघटार्थवत् ॥३६३६॥
७२२
विशेषावश्यकभाष्ये
कम्मचक्कं कमसो समं ति खयमेति तस्स भणितम्मि । समयं ति कते भासति कत्तो तुल्लद्वितीणियमो ? || ३६३७॥
कम्मचतुक्कं । कर्मचतुष्कम् - वेदनीयम् आयुः नाम गोत्रं चेति । यस्य भावत एव कथमपि समस्थितीति (नि) तस्य सममेव क्षयमुपयान्ति - युगपदित्यर्थः ॥ ३६३७॥ न तत्र समुद्घातकरणप्रयत्नः कस्यचित् । इत्युक्ते ब्रवीति कुतस्तुल्यस्थितिनियमः ? किह व अपुण्णठितीयं खवेतु कत्तो व तस्समीकरणं । कतणासादिभयातो नो तस्स कमक्खयो जुत्तो ॥ ३६३८॥
free व अपुण्णठितीयं इत्यादि । कथं वा अपूर्णस्थितिकालं कर्म क्षयमुपगच्छेत् ? कथं वा तस्यान्यैः कर्मभिः समीकरणम् ! यतः एकत्र कृतनाशः प्राप्नोति अधिकखण्डनात् । अन्यत्र अकृतागमः प्राप्नोति ऊनस्य संवर्द्धनात् । तस्माद् यथास्थितिकालमेव क्रमशस्तेषां क्षयो युक्त इति चोदकमतम् ॥३६३८॥
अत्र आचार्येण—
भणति कम्मrखयम्मि जेताऽऽयुमौदीय तस्स णिद्वेज्ज ।
[२३९ - द्वि०] तो कधमच्छतु स भवे सिज्झतु व कधं सकम्मंसो ॥ ३६३९ ॥
भणति कम्मक्खयम्मि । भण्यतेऽत्र - कर्मक्षयकाले यदि आयुष्क- वेदनीय-नामगोत्राणाम् एकस्य द्वयोर्वा अधिकत्वे तदूनं सत् आदावेव प्रथमतरं क्षीयेत, ततोऽसौ जीवः जीवनाधारत्वादायुष्कविगमे कथं तिष्ठेत् शेषकर्मानुभावार्थम् ? अथ न तिष्ठति किं तर्हि तदायुष्कविगमात् सिध्यते (ति) : ततः कथमसौ सावशेषकर्मा सिध्यतु ? "सर्वकर्मक्षये सिद्धिः" [ ] इति वचनात् ॥३६३९॥ तस्मात् कश्चित् प्रयत्न आस्थेयः, स चायम्
१ ह त । २ कम्म को। ३ ऽजु को । ४ जयाssवराईए को । ५ माईए हे, "माई त । ६ तत्त्वार्थसूत्रे तु " कृत्स्नकर्मक्षयो मोक्षः " १०, ३ इति वचनम् ।