________________
नि. ६६५] वस्तुद्वारम् ।
७१२ जो सव्वकम्मकुसलो । सर्वकर्म कुशलः एककर्मा चात्यन्तप्रकर्ष प्राप्तः कर्मसिद्धः, स्व(सु)परिनिष्ठितकर्मत्वात् सज्झे(ह्य)गिरिसिद्धकादिवत् ॥३५८७॥
जो सव्वसिप्पकुसलो जो जत्थ व सुपरिणिहितो होति । कोकासवइढई विव सातिसओ सिप्पसिद्धो सो [२३६-प्र०] ॥३५८८॥
।दारं । जो सव्वसिप्पकुसलो। सर्वशिल्पकुशलः एकशिल्पो(ल्पे) वा परिनिष्ठां गतः शिल्पसिद्धः, प्रकर्षगतशिल्पत्वात्, कोक्कासवर्द्धकिवत् ॥३५८८॥
विद्या-मन्त्रसिद्धयोर्भेदप्रदर्शनार्थ गाथाइत्थी विज्जाऽभिहिता, पुरिसो मन्तो ति तबिसेसोऽयं । विज्जा ससाधणा वा, साधणरहितो य मन्तो ति ॥३५८९।।
इत्थी विज्जाऽभिहिता । 'विड(द्ल) लाभे' 'विद सत्तायाम्' वा । तस्य 'विद्या'-इति भवति-ज्ञानम् । 'मन्त्रि गुप्तभाषणे' तस्य 'मन्त्रः' इति । रहस्यम् उभयत्रापीति । यस्मिन् मन्त्रदेवता स्त्री सा विद्या अम्बकूष्माण्मा[ष्माण्डया]दिः । यत्र देवता पुरुषः स मन्त्रः-यथा-विद्याराजो हरिणेगमेषिः, सर्वेणे(सर्वे च) यक्षय(यक्षा) इत्यादि । अथवा यावान् मन्त्रः सकल्पसाधनः सा विद्या । यस्तु पठितः सिद्धः साधनरहितः सौपरमन्त्रवता(शाबरमन्त्रवत) स मन्त्र इति ॥३५८९॥
विज्जाण चक्कवट्टी विज्जासिद्धो स जस्स वेगा वि। . सिज्झेज्ज महाविज्जा विज्जासिद्धोऽज्जखउडो व्व ॥३५९०॥दारं।
विज्जाण चक्कवट्टी इत्यादि । विद्यानां सर्वासामधिपतिश्चक्रवर्ती, एका वा महती विद्या सिद्धा-यथा अम्बकूष्माण्डी- महारोहिणी महापुरुषदत्ता महाप्रज्ञप्तिर्वा-[यस्य]स विद्यासिद्धः, सातिशयत्वात् , खपुटक्षमाश्रमणादिवत्॥३५९०॥ साधीणसव्वमंतो बहुमंतो वा पधाणमन्तो वा । यो स मन्तसिद्धो खम्भागरिसो व्व सातिसयो ॥३५९१॥ दारं ।
साधीणसव्वमंतो। 'सा(स्वा)धीनसर्वमन्त्रः' 'बहुमन्त्र(न्त्रः) 'प्रधानैकमन्त्रो वा' 'मन्त्रसिद्धः', आश्चर्यप्रसिद्धकर्मत्वात्, स्वामिदासादिवत् ॥३५९१॥
१ सह्यगिरिसिद्धकथानकम् श्रीमलयगिरिवृत्तौ पृ० ५१२ द्रष्टव्यम् । २ साह । ३ एषा कोक्कासवर्धकिकथा वसुदेवहिण्डयाम् । पृ० ६२-६३ द्रष्टव्या । " "यथा विद्याराजो हरिणेगमेषिःइत्यादि'-हारि० ० ४११ प्र०।५"शाबर दिमन्त्रवत्"-हारि० वृ० पृ०५११प्र.। ६ थमा दीमा ७भत्र मूलगाथायाम्-"खम्भागरिसो व्व" इति निर्दिष्टम्। एतस्य पदस्य व्याख्यामम "सम्भाकर्षवत्" इत्येवं हारि०मलयवृत्त्योः पृ०.५१२ प्र० तथा पृ. ५११ द्वि०।