________________
७१० विशेषावश्यकभाष्ये
[नि० ६६५अरहन्तणमोक्कारो सव्वपाव० । पंसेति, पिवति व इत्यादि । पंसयतीति निपातनात् पापम् । पिबति वा हितमिति पापम्-औणादिकः 'प'प्रत्ययः । पाति रक्षति जीवं भवस्थमिति पापम् , तत् सर्वमष्टप्रकारमपि पापजातिसामान्यापेक्षा(क्षणा)त् । तत् प्रणाशयतीति सर्वपापप्रणाशनः । णामादि मंगलाणं च । नामादीनि बहूनि मङ्गलानि, तेषां सर्वेषां प्रथममिति प्रधानार्थकारित्वात् । अथवा पश्चामृनि भावमङ्गलानि अर्हदादीनि, तेषां प्रथममाद्यम्-इत्यर्थः-प्रधानतरं वा प्रथममिति ॥३५८१-८३॥ उक्तार्थ मङ्गलद्वारम् ।
अथ सिद्धनमस्कारस्वरूपम्सिद्धो जो णिप्फण्णो जेण गुणेण स य चोद्दसविकप्पो । णेयो णामातीओ ओदणसिद्धादिओ दवे ॥३५८४॥
सिद्धो जो णिप्फण्णो। 'षिधु संराघौ' 'राध साध संसिद्धौ ‘षिधू शास्त्रे माङ्गल्ये च'। सिध्यति स्म सिद्धः-यो येन गुणेन निष्पन्नः परिनिष्ठितः न पुनः साधनीयः सिद्धौदनवत्-चतुर्दशविकल्पः । 'सिद्ध'शब्दसामान्यापेक्षात(तः) सर्वेषां ग्रहणम् , समानशब्दाभिधेयत्वात् 'गो'शब्दाक्षिप्तगवादिपदार्थवत् । तेषां च व्यवच्छेद (दः) अर्थ-प्रकरणादिभिरिति चतुर्दशापि वर्ण्यन्ते । स च नामादिकः प्रोक्तश्चतुर्विधः । नाम-स्थापने पूर्ववत् । द्रव्यसिद्धः 'निष्पन्न ओदनः' सिद्ध उच्यते । भावसिद्धःकर्मक्षयसिद्धः-पर्यन्ते वक्ष्यते ॥३५८४॥ 'कम्में सिप्पे य विज्जाय मन्ते जोगे य आगमे । अत्यजत्ताअभिप्पाए तवे कम्मक्खए ति य ॥६६५॥३५८५॥ दारगाधा। कम्म जमणायरियोवदेसजं सिप्पमण्णधाभिहितं । किसि-वाणिज्जादीयं घङ-लोभारादिभेतं च ॥३५८६॥ .. कम्मे सिप्पे य इत्यादि । कम्मं जमणायरियोवदेसज । अनाचार्योपदेशजातं सातिशयमनन्यसाधारणं कर्म उच्यते । यत् पुनराचार्योपदेशाद् ग्रन्थनिबन्धाद्वोपजायते सातिशयं कर्मापि तच्छिल्पमुच्यते । भारवहन-कृषि-वाणिज्यादि कर्म । घटकार-रथकारादिभेदजं शिल्पम् ॥३५८५-८६॥
जो सव्वकम्मकुसलो जो जत्थ य सुपरिणितितो होति । ..सज्झगिरिसिद्धो इव स कम्मसिद्धो ति विण्णेयो ॥३५८७॥ दारं ।
त नास्ति २ वि को । ३ भत्र ३५८६ गाथातः ३६२७ गाथापर्यन्ता द्वाचत्वारिंशद् पाथा हे तथा त प्रत्योर्मोपलभ्यन्ते, तस्य स्थाने हे त प्रतौ च "कम्म" गा० ३५८६ तः भारभ्य " किलम्मइ जो तवसा [३६२७] गाथापर्यन्ता एकचत्वारिंशदू गाथा: इति सिदेशः । १ हारा' को दी हाम।