________________
नि० ६६१] वस्तुद्वारम् ।
७०३ यावन्ति तावद्भिर्व्यपदेश इति । अथवा लब्धीन्द्रियं प्रतीत्य सर्वेऽपि जीवाः पञ्चेन्द्रियाः। यदा यत्र वा जीवे एव ता लब्धयो भविष्यन्ति, नाजीवे ॥३५४६॥
तथा चोपपत्तिःजं किर बउलादीणं दीसति सेसिन्दियोवलंभो वि । तेणत्थि तदावरणक्खयोवसमसंभवो तेसिं ॥३५४७॥
जकिर बउलादीणं इत्यादि । बकुलादीनां वृक्षाणां बाह्यनिर्वृत्त्यभावेऽपि रसादीन्द्रियार्थोपलब्धिईष्टेति तदावरणक्षयोपशमलब्धिरनुमीयते ॥३५४७॥
ततश्चपंचिंदियो ब्वै बउलो गरो व्व सम्वविसयोवलंभातो । तध वि ण भण्णइ पंचिन्दियो त्ति बज्झिन्दियाभावे ॥३५४८॥ मुत्तो वि कुंभणित्तिसत्तिजुत्तो त्ति जहें स घडगारो । लद्धिन्दिएण पंचिन्दियो तथा बज्झरहितो वि ॥३५४९।।
पंचिंदियो व्व इत्यादि । 'पञ्चेन्द्रियो बकुलः' इति प्राप्नोति व्यपदेशः, पञ्चेन्द्रियार्थोपलब्धिमत्त्वात् मनुष्यवत् । एवमाहतस्यागमविरोधः, एकेन्द्रियाभ्युपगमात् । अपक्षधर्मत्वं च पञ्चेन्द्रियार्थोपलब्धेरभावात् । ननु च सनूपुरालङ्कारयुवतिगण्डूषसीधुसेचनात् पुष्पवृद्धिः किंकृता ? एषोऽभिप्रायः स्यात्-नूपुरशब्दश्रवणात् , सालङ्कारयुवतिदर्शनात्, तद्धस्त-पादादिसंस्पर्शनात् , गण्डूषसीधुरसाऽऽस्वादनात्, तद्गन्धाऽऽघ्राणाच्च पञ्चेन्द्रियार्थोपलब्धिमत्त्वं दृष्टमिति कथमपक्षधर्म उच्यते लब्धीन्द्रिये सत्यपि पञ्चेन्द्रियत्वोपपत्तौ ? भवान्तरे वा बाह्येन्द्रियाभावे निर्वृत्त्यभावे व्यवहारनयस्य पञ्चेन्द्रियत्वाभावः बाह्यविषयाग्रहणं च । अथैवं मन्येथाः-गृहीता एव ते तेन बकुलेन विषयाः उपलब्धि[ब्ध]तत्प्रीतिलिङ्गपुष्पप्रदानवत्त्वात् मनुष्यवत् । उच्यते, सन्दिग्धासिद्धोऽयम्-बाह्येन्दियाभावे किं तेनोपलब्धाः उत नोपलब्धा इति ! पुष्पप्रदानं तु-तद्व्यावयवस्पर्शविनीता[त]दौढतत्वात्-स्पर्शेन्द्रियविषयमेव पानीयसेचनादिवत् । तस्माल्लब्धीन्दियं प्राप्यैव बकुलः पञ्चेन्द्रियः तच्छक्तियुक्तत्वात् कुम्भनिवृत्तिशक्तियुक्तसुप्तकुम्भकारवत् । तच्चोक्तम् 'लब्धीन्द्रियं प्राप्य सर्वे जीवाः पञ्चेन्द्रियाः' इति सिद्धसाधनम् । बाह्येन्द्रियाभिव्यक्तिं प्रति एकेन्द्रिय एव बकुलः, उपयोग प्राप्य पञ्चेन्द्रियाः अप्येकेन्द्रियाः किमुत शेषाः ? इति ॥३५४८-४९॥
१ उवला त। २ विको। ३ वा हे। ४ व्युत। वत्तिजे। ५ह घडात।