________________
नि० ६६१]
Got
वस्तुद्वारम् ।
जलराजीसदृशः पक्षमात्रस्थायी संज्वलनक्रोधः देवगतिसाधनफलः । रेणुराजी सदृशः चतुर्मास कालस्थापनायां प्रत्याख्यानावरणक्रोधो मनुष्यगतिसाधनः । भूमिराजीसदृशः संवच्छ[[स]रकालस्थायी अप्रत्याख्यानावरणक्रोधः तिर्यग्गतिसाधनः । पर्वतराजीसदृशः यावज्जीवकालानुबन्धी अनन्तानुबन्धिक्रोधः नरकगतिसाधन इति । एवं सर्वेऽपि मानादयः तैः स्वैरुपमानैः पक्षादिना कालेन देवगत्यादिसाधनेन च योज्याः । कषायद्वारं गतम् ॥ ३५३७-३९॥
अथेन्द्रियप्ररूपणा
इंदो जीवो सव्वोवलद्धिभोगपरमेस्सरत्तणतो । सोचादिभेतमिन्दियमिह तल्लिंगादिभावातो ॥ ३५४० ॥
इंदो जीवो इत्यादि । 'इदि परमैश्वर्यं [र्ये ] ' इन्दनादिन्द्रः - सर्वोपलब्धिभोगपरमैश्वर्यसम्बन्धात्–जीवः तस्य लिङ्गम् तेन दृष्टं चेत्यादि “ इन्द्रियमिन्द्र लिङ्गम्” [५।२।१३। पा०] इत्यादिना सूत्रेण निपातकात् (तनात् ) । तच्च श्रोत्रादि पञ्चभेदम् ॥ ३५४०॥
तं णामाति चतुद्धा दव्वं णिव्वेत्ति ओवैकरणं च । आगारो णिव्वैत्ती चित्ता बज्झा इमा अन्तो ॥ ३५४१ ।।
णामाति चतुद्धा । तत् श्रोत्रादि इन्द्रियं सामान्यसंज्ञातः विशेषसंज्ञातश्च नामादिना न्यासेन चतुर्द्धा निक्ष[क्षि]प्यते - नामेन्द्रियम् स्थापनेन्द्रियम् द्रव्येन्द्रियम् भावेन्द्रियं चेति । तत्र नोआगमतो द्रव्येन्द्रियम् - निर्वृत्तिः उपकरणं च । तद्बाह्याभ्यन्तराकार - निर्वर्त्तनं निर्वृत्तिः, बाह्याकारनिर्वृत्तिश्चित्रा जातिविशेषापेक्षा नानेत्यर्थः - यथा - मनुष्यस्य श्रोत्रं समं नेत्रयोरुभयपार्श्वतः, अश्वस्य मस्तके नेत्रयोरुपरिष्टात् तीक्ष्णाग्रम् इत्यादिजातिभेदाद्बहुविधाकारा । बाह्यनिर्वृत्तिरेव चक्षुरादीनां विषयेति [यः इति ] ॥३५४१॥ अभ्यन्तरनिर्वृत्तिस्तु सर्वेषां समा - जीवानाम् - सा (ताः) चेमा:
पुप्फं कैलंबुकाए धष्णममुरादिमुत्तचन्दायी ।
होति खुरुप्पो णाणाssकिती य सोविन्दियादीणं ॥ ३५४२॥
१ इन्द्रियम् इन्द्रलिङ्गम् इन्द्रदृष्टम् इन्द्रसृष्टम् इन्द्रजुष्टम् इन्द्रदत्तम् इति वा" इति संपूर्ण सूत्रम् । हे त । ३ व हे । ४ व हे । ५ व्विति है । 'व्वित्ती त । '६ फलं चन्दो य को हे त । ८ खुर को हे त ।
२ 'व्वित्ति जे हे । ७