________________
३९९
नि० ६६१]
वस्तुद्वारम्। होति कसायाणं बन्धकारणं जं स पच्चयकसायो। सदातियो त्ति केई' ण समुप्पत्तीय भिण्णो सो ॥३५३०॥ दारं ।
होति कसायाणमित्यादि । कषायाणां कर्मरूपाणां बन्धकार(रणं) यत् आशयविशेषः । अन्ये "शब्दादिविषयान् पञ्च प्रत्ययान्" [ ] इति मन्यन्ते, तन्न, समुत्पत्तिकषायग्रहणेन ग्रहणात् । तस्माद्यथोक्तमेव बन्धकारणं प्रत्ययकषाय इति ॥३५३०॥
आदेसतो कसायो कइतवकतभिउडिभंगुराकारो। केई 'चित्ताइगतो ठवणाणत्यंतरों सो य ॥३५३१॥ दारं ।
आदेसतो कसायो । आदिश्यत इत्यादेशः, आदिशनं वा आदेश:-आज्ञा, तया आज्ञया विनापि कषायेण तदाकारप्रदर्शनम्-कैतवकृतभ्रकुटिभङ्गुराकारः । "नृत्तादिप्रयोगेषु केषुचिदेव भ्रकुटिभङ्गुराकारं चित्रस्थमादेशकषायः"[ ] इति ब्रुवते, तन्न, स्थापनाकषायानन्तरत्वात् ॥३५३१॥ ।
रसतो रसो कसायो। दारं । कसायकम्मोदयो य भावम्मि। सो कोधाति चतुद्धा णामादि चतुविधेक्केक्को ॥३५३२॥ .
रसतो रसो इत्यादि । रसतः कषायो रसकषायः-हरीतक्यादीनां रसः। भावतः कषायो भावेन वा कषायो भावकषायः-जीवपरिणामत्वात्-क्रोधादिश्चतुविधः । तत्रैकैको न्यासतो नाम-स्थापना-द्रव्य-भावैः क्रोधादिः प्ररूपणीयः ॥३५३२॥
अथास्यामष्टविधायां कषायप्ररूपणायां नयमतारि(नि)भावं सहातिणया अवविधममुद्धणेगमातीया । णाऽऽदेमुप्पत्तीओ सेसा जं पच्चयविकप्पा ॥३५३३॥
भा सदातिणया इत्यादि । शब्दादयः शुद्धनयाः परमार्थप्राहित्वाद् भावकषायमेवैकं मन्यन्ते, शेषान् सप्त-औपचारिकत्वात्-नेच्छन्ति । अशुद्धनयास्तु नैगमसङ्ग्रह-व्यवहाराः निश्चय-व्यवहारद्वयाङ्गीकरणादष्टविधमपीच्छन्ति । शेषा ऋजुसूत्रशुद्धनैगमादयश्च आदेशोत्पत्तिवर्जम्, यस्मादेतद् द्वयं प्रत्ययविकल्पावेव । ततः प्रत्ययकषायमध्ये प्रक्षेपः ॥३५३३॥
केई को हे त। २ 'ऍ को, ए हे, इत। ३ डी हे।४ केयि जे। ५ चिन्ता जे। ६ तर जे । ७ ऽयं को हे। ८ "आज्ञा कषायो नटादिः । केचन तु चित्रकर्म आदिशन्ति"-कोटया वृ० पृ० ८४१ । अत्र हे. गा० २९८४ वृत्तिरपि तुलनीया पृ० ११६९१ ९ आएसुहे।