________________
द्वितीयो गुच्छक इतीति । इति हेतुप्रकरणप्रकाशादिसमाप्तिषु-इत्यमर । मे मम रामस्य । दोषदृष्ट यव सर्वत्रासमञ्जस्यपर्यालोचनेनैव ॥१५२॥
जन्मानलिवरत्रायामिन्द्रियग्रन्थयो दृढाः ।
निपुण येन मुच्यन्ते जित तेन महात्मना ॥१५३॥ जन्मेति । नत्री वीं वरत्रा स्यात्-इत्यमर । मुच्यन्ते भिद्यन्ते । जितमिति भावे क्त ॥१५३॥
इदानी स्वच्छया बुद्ध्या चित्त चेन चिकित्स्यते ।
पुनरेतचिकित्साया ब्रह्मन्नवसरः कदा ॥१५४॥ इदानीमिति । चिकित्स्यते नैरुज्यीक्रियते। कित निवासे रोगापनयने च ॥१५४॥
वासनाजालजटिला दुःखसकटसकुला ।
निपातोत्पातभूयिष्ठा भीमा ह्यज्ञानताटगी ॥१५॥ वासनेति । सकट ना तु सबाध -इत्यमर ॥१५५।। आयुर्घायुविघट्टिताभ्रपटलीलम्बाम्बुमद् भङ्ग र
भोगा मेघपितानमध्यविलसन्मौदामिनीचश्चलाः । लोला यौवनलालना जलरयोहल्ला इति व्यामृशन्
मुद्रामेप दृढामकार्षमधुना चित्त चिर शान्तये ॥१५६।।
॥ इति सकलपदार्थानास्था ॥ आयुरिति । उद्घल्ला वारिवेगवदुद्भटा इत्यर्थ । विषयविरतिलक्षणा मुद्रा सनिवेशविशेषम् । अकार्ष व्यधाम् ॥१५६।।
॥ इति सकलपदार्थानास्था । इदानी परितापमुपसहरन् प्रयोजन दर्शयति
प्रयोजन तु-'यमर्थमविकृत्य प्रवर्तते तत् प्रयोजनम्' (१११।२४) इत्यक्षपाद ।