________________
KK
दशकण्ठवधम्
( १७ ) विपर्ययममायन्ति भूतभौतिकभूतयः । धान्यधान्य इवाजस्र पूर्यमाणाः पुनः पुनः || १४७ || विपर्ययेति । यत्ति यान्ति । इण गतौ । धान्यधान्य धान्यकुम्भ्य ॥ १४७॥
प्रतिक्षणनिपर्यासवाहिना निहतात्मना ।
जगद्भ्रमेण के नाम मतिमन्तो न मोहिताः || १४८ ॥
प्रतिक्षणेति । निहतात्मना अध पातितात्मना ॥१४८॥
क्षण निपत् क्षण सपत् क्षण जन्म क्षणं मृतिः । विलक्षण प्रवाहेऽस्मिन् मुने ! किमिव न क्षणम् ॥१४६॥
क्षणमिति । क्षरणमित्यत्यन्तसंयोगे द्वितीया । अहो । सर्वं नश्वरमिति
भाव ॥१४६॥
घटस्य पटता दृष्टा पटस्यापि घटात्मता ।
तन्न यन्न विपर्यासि दृश्यते रोदसी नौ ॥ १५० ॥
घटस्येति । घटस्य विशीर्णस्य क्षेत्रे कार्पासपरिणामेन पटता दृष्टा - इत्यर्थ । एव पटस्यापि परिणामवशेन घटता समुन्नेया ॥ १५०॥
इतान्यदितवान्यद्वस्त्वेव विदधद् विधिः ।
क्रीडन् शिशुरिवैकान्त न खेद प्रतिपद्यते ॥ १५१ ॥ ॥ इति सर्वभागातिविपर्यासः ||
इतश्चेति । यदेकत्र ततोऽन्यत्र विलक्षणमिति भाव ॥ १५१ ॥ ॥ इति सर्वभावाविरत विपर्यास ॥
( 25 )
क्लिष्ट मानसकोर के |
इति मे दोष उत्पद्यन्ते न भोगाशा मृगतृष्णा इन हृदे ॥ १५२ ॥