________________
द्वितीयो गुच्छक मनोहरेति । विषद्रुम कारस्करो वृक्ष । मूर्छना मूर्छा ॥१४३।। कास्ता दृशो यासु न सन्ति दोषाः
कास्ता दिशो यासु न दुःखदाहः । कास्ताः प्रजा यासु न भङ्ग रत्व
कास्ताः क्रिया यासु न नाम माया ॥१४४॥ कास्ता इति । दृश दृष्टय । वैषयिकज्ञानानीत्यर्थ । दु खदाह सुख सचाराभाव । भङ्ग रत्व नश्वरभाव । माया अनाश्वास ॥१४४।। सर्वत्र पाषाणमया महीनाः
मृदा मही दारुभिरेव वृक्षाः । मासर्जनाः पौरुषबद्धभावा
नापूर्वमस्तीह विकारशून्यम् ॥१४॥ सर्वत्रेति । प्रकृत्यादिभ्य उपसख्यानम् । इत्यभेदे तृतीया । पौरुषबद्ध भावा पुरुषार्थाहकृता । किमपि विकारशून्यम् अपूर्व दृश्य नास्ति । वाचारम्भण विकारो नामधेयमिति तात्पर्यम् ।।१४।। जनः कामारूढो विविधकुकलाकल्पनपर
स्ततोऽन्यो दुष्प्रापो जगति सुजनोऽनघचरितः । क्रिया क्लेशावेशा विधुरपिधुरा लौकिककथा ___ न जाने नेतव्या कथमिव दशा जीवनमयी ॥१४६॥
॥ इति निःश्रयसपिरोधिभागानित्यता ॥ जन इति । कामारूढ स्वार्थपरायण । अनर्घचरित अमूल्यचारित्र । लौकिककथा लोकयात्रा । कथमिव कया चर्यया । अहो । दु ख दु खमिति भाव । शिखरिणी छन्द ॥१४॥
॥ इति नि श्रेयसविरोधिभावानित्यता ।