________________
८५
द्वितीयो गुच्छक भावान् स्मरन् सानिह धर्मरितान्
जीवन्मृतो म्लायति गेहकोणे ॥१३७|| विशदिति । दग्धवयस यौवनहतकस्य विरामे अवसाने । भावान् अनुष्ठितान इत्यर्थ । अन्यत्राप्युक्तम्
'उत्क्रम्य विश्वतोङ्गात् तद्भागैकतनुनिष्ठिताहन्त ।
कण्ठलुठत्प्राण इव व्यक्त जीवन्मृतो लोक ॥' इति । अप्रयोजकतया परिवारोपेक्षणे वर्णितदशा सुप्रसिद्धैवेति भाव ॥१३७|| समूलघात निहते सपत्ने
पत्नीकृताया च नयेन लक्ष्म्याम् । भुक्त हि सोख्यानि पराणि यावत्
तावन्मृतिर्मार्गति कामिनीव ॥१३८॥ समूलेति । समूलघात समूलमित्यर्थ । 'समूलाकृतजीवेषु हन्कृग्रह' (पा० सू० ३।४।३६) इति णमुल् । ऐहिकसुखसाधनोपार्जनप्रवणस्य आमुष्मि कावसरो नायातीति भाव ॥१३८।।
प्रियासुभिः कालमुस क्रियन्ते
___जनैडकास्ते हतकर्मबद्वाः। यैः पीनतामेन बलादुपेत्य
शरीरबाधेन न ते जयन्ति ॥१३६॥
प्रियासुभिरिति । प्रियासुभि प्रियप्राणै, यै कर्मभि , शरीरबाधेन शरीरपीडया, बलाद् हठात्, पीनताम् एव पुष्टिम् एव, उपेत्य स्वीकृत्य, ते जना , एडका मेषा इव, विवेकशून्यत्वात । 'उपमानानि सामान्यवचनै ' ( पा० सू० २।११५५) इति समास । जनैडका ऐहिकामुष्मिकफलकाक्षिण | कालमुख कालपास यथा स्यात् तथा क्रियन्ते । कर्मिणो निष्पाद्यन्ते इत्यर्थ । ते हतेन क्षयिणा । नश्वरफलघटकेनेत्यर्थ । कर्मणा व्यापारेण बद्धा नियन्त्रिता सन्त न जयन्ति-जीवन्मुक्तथादिमार्गस्खलितत्वात् कृतकृत्या न भवन्तीति तात्पर्यम् ।