________________
८४
दशकण्ठवधम्
जरेति । इदम् इतिकर्तव्यताविचारमौट्यस्य फल दर्शितम् ॥ १३३||
तृष्णासरित् सान्द्रतरप्रनाहपूरस्यदग्रस्त पदार्थपूगा ।
तटस्थसतोषतरून् समन्तात् समूलकाष कपतीव रुष्टा ॥ १३४॥
तृष्णेति । पूरस्य स्यदो वेग । पूग वृन्दम् । पूगस्तु क्रमुके वृन्दे - इति मेदिनी । समूलकाष कषति - समूल कषतीत्यर्थ । 'निमूलसमूलयो कष' ( पा० सू० ३|४|३४ ) इति णमुलि - ' कषादिषु यथाविध्यनुप्रयोग ' ( पा० सू० ३ | ४|४६ ) इति ॥ १३४||
तनूतरिस्तै जसतन्तुमृता
जगत्पयोधौ तरल तरन्ती ।
उरुक्रमैरिन्द्रियनव
रभ्याहता हन्त ! निमज्जतीव ॥ १३५॥
तनूतरीति । तनू काय । कायो देह क्लीवपु सो स्त्रिया मूर्तिस्तनुस्तन् इत्यमर । तैजसतन्तुमूता रजोगुणबद्धा । मूङ् बन्धने - क । उरुक्रमै विपुल - क्रमणै ॥१३५॥
दुःखेषु दूरास्तविषादमोहाः
सुखेष्वनुत्सिकमनोभिरामा ।
सुदुर्लभा सप्रति सुन्दरीभि
राहतान्तःकरणा महान्तः || १३६||
दुःखेष्पिति । अनुत्सिक्तम् अगर्वितम् ॥१३६॥
शिद्विषादा विषमामवस्था -
मुपाश्रितो दग्धवयोविरामे ।