________________
७८
दशकएठवधम् इहापि भामते येषा सुभगा सुखभावना ।
तामप्याखुरिव ग्रन्थि कालः कृन्तति सर्वतः ॥१०४॥ इहेति । इहापि एवदुर्विलसितेऽपि ।।१०।।
कालो जगन्ति सामान्याददन्नपि जिघत्सुकः ।
दृश्यसत्तामिमा सर्वा करलीकतु मुद्यतः ॥१०५॥ कालेति । सामान्यात् सर्वसाधारण्यात् । जिघत्सु अत्तुमिच्छु जिघत्सुरशनायित -इत्यमर ॥१०॥
पिरश्चिमूलब्रह्माण्डबृहद्दवफलिद्रुमम् ।
ब्रह्मकाननमाभोगि यः पराक्रम्य चेष्टते ॥१०६॥ पिरश्चीति । य काल । विरश्चि अपञ्चीकृतभूतात्मा मूल यस्य तादृग् , ब्रह्माण्डमेव बृहन् देव दैवतवर्ग , फलप्रदतया फली फलवान्, द्रुम वृक्ष , यस्मिंस्तत् । 'जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्' (पा० सू० १।२।५८) इति विकल्पेनैकवचनम् । ब्रह्मैव कानन, दुर्गमत्वान्महारण्यम् । आभोगि आभोगवत् । पराक्रम्य परिभूय । चेष्टते जृम्भते ।।१०६॥
जगज्जीर्णकुटीकीर्णान् निदवात्युग्रकोटरे ।
यः क्रमाद् गुणवल्लोकमणीन् मृत्युसमुद्गके ॥१०७॥ जगदिति । य काल । जगदेव जीर्णकुटी तत्र कीर्णान् विक्षिप्तान् । गुणवन्तो लोका एव मणय , तान् । उनकोटरे भीषणकन्दरे। मृत्युरेव समुद्गक सपुटक , तत्र । क्रमाद्-अद्य श्व परश्व-इत्यादि क्रमेण । निदधाति निक्षिपति ॥१०७॥
गुणैरापूर्यते यैव लोकरत्नापली भृशम् ।
भूषार्थमिव सा कण्ठे कृत्याप्येतेन पात्यते ॥१८॥ गुणैरिति । गुणै शौर्योदार्यादिभि तन्तुभिश्च । लोका एव रत्नानि, लोका रत्नानीव, तेषाम् आवली ।।१०।।