________________
द्वितीयो गुच्छ
जाग्रदिति । जाग्रती जरैव सुधा लेपनद्रव्य, तया दीप्त धवलम् । वपुरेव अन्तपुरम् अन्तर्भवनम्, तदन्तरम् । अशक्त यादय अङ्गना । सुखम् अकुतोभयम् । अध्यासते -'अविशीड्स्थासा कर्म' ( पा० सू० १ | ४ | ४६ ) इत्याधारस्य कर्म -
सज्ञा ||६||
दृष्ट्वैवोत्कण्ठितेवाशु प्रगृह्य शिरसि क्षणम् । लुनाति जरा काय कामिनी कैरव यथा ॥ १०० ॥ दृष्ट्वेति । उत्कण्ठिता उत्का समीपस्था च । शिरसि मूर्धनि अग्रभागे
च | कैरव चन्द्रकिरणविकास कमलम् ||१०० ॥
दुष्प्रेक्ष्य दुरवस्थान दुराधिव्याधिवान्धनम् । अभ्यर्णमरणोद्वार वार्धक केन गृध्यते ॥ १०१ ॥ ॥ इति जराजुगुप्सा ॥ दुष्प्रेक्ष्यमिति । गृध्यते अभिकाङ्क्ष्यते ॥१०१॥
॥ इति जराजुगुप्सा ॥ ( १२ ) विकल्पकल्पनानल्पजल्पितैरल्पबुद्धिभिः ।
भेदैरुद्धरता नीतः ससारकुहरे भ्रमः || १०२ ||
७७
विकल्पेति । ममेद भोग्यम्, अहमस्य भोक्ता, इमानि च तत्साधनानि, अनेन इदम् इत्थ सपाद्य भोये, इदमद्य लब्धम्, इद लप्स्ये इत्येवमादिभि विकल्पकल्पनै अनल्पानि जल्पितानि येषा तै । अल्पबुद्धिभिन्दै कर्तृभि । भेदै शत्रुमित्रोदासीनादिभि । ससारकुहरे ब्रह्माण्डान्तरे भ्रम उद्धरता दुरुच्छेदता नीत ॥१०२॥
सता कथमिनास्थात्र जायते जालपञ्जरे ।
शिशूनामेव संतुष्टिः फले मुकुरबिम्बिते ॥१०३॥
सतामिति । सता विवेकिनाम् । अत्र जालपञ्जरे इन्द्रजालकल्पे आयतने । फले आम्रादिरूपे । मुकुरबिम्बिते दर्पणादौ प्रतिफलिते ॥१०३॥