________________
द्वितीयो गुच्छक लब्ध्वेति । क्लिश्नन्ति इति क्लेशा । तथा च पतञ्जलि -'अविद्यास्मितारागद्वेषाभिनिवेशा पञ्च क्लेशा' (यो द० २।३) इति ॥७७॥
अशक्तिरापदस्तृष्णा मूकता मूढबुद्धिता ।
गृध्नुता लोलता दैन्य बाल्ये वल्गन्त्यशृङ्खलम् ॥७८॥ अशक्तीति । गृध्नु गर्धनशील । गृधु अभिकाक्षायाम् । 'त्रसिगृविधृषिक्षिपे क्नु' (पा० सू० ३।२।१४०) इति क्नु । अशङ्खल निरर्गलमिति क्रियाविशेषणम् ॥८॥
रोषरोदनरौद्रीषु दैन्यदीप्तदुराधिषु ।
दशासु बन्धन बाल्यमालानमिव हस्तिनः ॥७॥ रोषेति । रौद्रय उग्रा । आलान हस्तिबन्धनम् । आलान करिणा बन्धस्तम्भे रज्जौ च न स्त्रियाम्-इति मेदिनी ॥७६।।
प्रतिविम्बधनाज्ञान नानासकल्पपेलवम् ।
बाल्यमालूनसशीर्णमनः कस्य सुखावहम् ॥८०॥ प्रतिविम्बेति । प्रतिबिम्बवद् घन सान्द्रम् अज्ञान यस्मिस्तत् । नानासकल्पै पेलवम् कोमलम् । तत्तत्सकल्पितविषयालाभाद् आलूनवत् सर्वतश्छिन्नवत् सशीर्णवद् दुखितवन् मनो यस्मिस्तत् ॥८॥
सर्वेषामेन सत्त्वाना सर्वावस्थाम्य एव हि ।
रिशिष्य शैशवे चेतश्चाञ्चल्याधिक्यमृच्छति ॥८१॥ सर्येषामिति । प्रत्यक्षमनुभूतमेतत् ।।८१॥
मनः प्रकृत्यैव चल बाल्यं च चलता वरम् ।
भ्रात्रोरिव तयोः श्लेषश्चापलायालमेधते ॥२॥ मन इति । पूर्वस्यैव प्रपञ्चनमेतत् ॥२॥
विकल्पकल्पितारम्भे दुर्विलासे दुराशये । श्राः कष्ट मोहमाधत्ते बालो बलवदापतन् ॥८३॥
॥ इति बाल्यजुगुप्सा ॥