________________
दशकएठवधम्
इयमिति । दीना वराकी ॥७२॥
न किचिदपि दृश्येऽस्मिन् दृश्यते सत्यवत्तया।
दग्धात्मना शरीरेण जनता पिपलभ्यते ॥७३॥ नेति । सत्यवत्तया परमार्थतया । दग्यात्मना चेतनहतकेनेत्यर्थ ॥७३॥ ऊर्ध्वाधस्तिर्यगारूढप्रपालावलिसवृतः । प्रकाण्डशाखाविटपप्राग्भारविभवोच्छितः ॥७४॥ आमूलचूडपर्याप्तिपत्त्रपुष्पफलोर्जितः । तृष्णाशीविषसूत्कारः कोपवायसाशितः ।।७५॥ द्रोहगृगरुत्वोभोऽहंकारोल्लासलालितः । कस्यात्मीयः परो वापि कायवृक्षोऽयमुद्गतः ॥७६॥ (तिलकम्)
॥ इति कायजुगुप्सा ॥ ऊर्षेति । सर्वदिक्कया प्रवालसतन्या वेष्टित इत्यर्थ । प्रकाण्डेति । तत्तदवयवसमृद्धथा अभ्र कष इत्यर्थ । आमूलेति । आमूलाग्र तत्तद्भोग्यविशेषेण प्राणित इत्यर्थं ।
तृष्णेति । सूत्कार फूत्कार । वाशित शब्दित । तिरश्चा वाशित रुतम्-इत्यमर ।
द्रोहेति । गरुक्षोभ पक्षविक्षेप । स्वकीय परकीयो वा । उभयथाप्यनास्थेय इति भाव । तिलक त्रिभि सबद्ध विशेषकमित्यर्थ ॥७४-७६।।
॥ इति कायजुगुप्सा ॥
लब्धापि तरलाकारे कार्यभारतरङ्गिणि । ससारसागरे जन्म, बाल्य क्लेशाय केवलम् ।।७७॥