________________
द्वितीयो गुच्छक आयतेति । अनन्तम् अपरिच्छिन्न, अनन्ते खे च सस्थान यस्या सा । गुण औदार्यादि मौर्वी च । शक्रधनूयते शक्रधनु इद्रायुवम्, तद्वदा चरति । शक्रवनुष्शब्दादाचारेऽर्थे क्यड । 'कर्तु क्यड् सलोपश्च' (पा० सू० ३।१।११) इति ॥६७।।
वल्लकी कामगीताना शृङ्खला मोहदन्तिनाम् । नटी जगद्रूपकाणा तृष्णा केनाभिभूयताम् ॥६८||
॥ इति तृष्णाभङ्गः॥ वल्लकीति । जगन्त्येव रूपकाणि । नाटकादिदृश्यकाव्यविशेषा ॥६८।।
॥ इति तृष्णाभङ्ग ।
सुखराकाप्रभोद्भासि क्षणमानन्दतुन्दिलम् ।
क्षण दुःखकुहूध्वान्तच्छन्न क्लिष्टमिद वपु. ॥६६॥ सुखेति । सुखमेव राका पूर्णचन्द्रा रात्रि । पूर्णे राका निशाकरे-इत्यमर । दु खमेव कुहू शून्यचन्द्रा रात्रि । सा नष्टेन्दुकला कुहू -इत्यमर । क्षणमित्य त्यन्तसयोगे द्वितीया ॥६॥
बद्धास्था ये शरीरेषु सक्ताः ससृतिभूतिषु ।
ते मोहमदिरोन्मत्ताः किमुच्यन्ते धिगन्तरा ॥७०॥ बद्धास्थेति । आस्था आलम्बनम् । आस्था त्वालस्वनास्थानयत्नापेक्षासु योषिति-इति मेदिनी । ससृति ससार ७०॥
तडित्सु शरदभ्रषु गन्धर्वनगरेषु च ।
स्थिरता निश्चिता येन तेन विश्वस्यतां तनौ ॥७१।। तडिदिति । गन्धर्वनगर राजनगराकार नीलपीतादिमेघरचनाविशेष ॥७॥
इय हि चेतना दीना देहान्तरविवर्तिना । मिथ्याज्ञानपिशाचेन ग्रस्यमाना विमुह्यति ॥७२।।