________________
दशकण्ठवधम् मरुतीव रजःपुञ्जो वियतीव शरधनः ।
उदन्तीव डिण्डीरस्तृष्णागते भ्रमाम्यहो ! ॥६१॥ मरुतीति । डिण्डीरोऽब्धिकफ फेन - इत्यमर ॥६॥
अश्रान्तजलससा गाढोर्धाधोगमागमा ।
तृष्णा ग्रन्थिमती स्फारमारघट्टाग्ररज्जुवत् ॥६२॥ अश्रान्तेति । आरघट्ट घटीयन्त्रम् । अरहट इति प्रसिद्धम् ॥६२।।
कुटिला कोमलस्पर्शा निषवैषम्यसश्रया ।
दशतीषदपि स्पृष्टा तृष्णा कृष्णेव सपिणी ॥६३॥ कुटिलेति । कुटिलेति चत्वारि विशेषणानि उभयत्र तुल्यानि ॥३॥
अनापर्जितचित्तापि सर्वमेवानुगच्छति ।
न विन्दति फल किंचित् तृष्णा जीर्णेव कामिनी ॥६४॥ अनावर्जितेति । न आवर्जितम् अनाकलित चित्त यया तथाभूता जीर्णा कामिनीव ॥६४॥
पद करोत्यलध्येऽपि तृप्तापि फलमीहते ।
चिर तिष्ठति नैकत्र तृष्णा लोलेव वानरी ॥६५॥ पदमिति । पद स्थान चरणन्यास च ॥६५॥
उद्यद्धनरसोत्सेधा परमालोकमुद्रिका ।
मोहकेकिकुलाकीर्णा तृष्णा कादम्बिनीयते ॥६६॥ उद्यदिति । कादम्बिनी मेघमाला-इत्यमर ॥६६॥
आयताऽनन्तसस्थाना विचित्रा विगलद्गुणा । आवद्धरागसताना तृष्णा शक्रधनूयते ॥६॥