________________
द्वितीयो गुच्छक
यावन्न मनसोऽपैति जगचित्र प्रसारितम् । तावत्कौतूहलाक्रान्त कथमेतत् प्रशाम्यति || ५६ ||
यावदिति । एतद् मन ||५६ ||
क्षण ध्यान क्षण ज्ञान क्षण नन्दनचिन्तनम् | विलक्षण मनो यावद् विषयोर्मिंषु सक्षणम् ॥५७॥
क्षणमिति । सक्षण सस्पृहम् | क्षणमिति - ' कालाध्वनोरत्यन्तस योगे'
( पा० सू० २/३/५ ) इति द्वितीया ॥ ५७ ॥
६६
क्षणाज्जगन्ति सचर्य न मनागपि तिष्ठति ।
यत्तन्निगृह्यता केनाकाशकासारवृएमनः || ५८ || ॥ इति चिचदौरात्म्यम् ||
क्षणादिति । आकाश एव कासार, तंत्र तृड् तृष्णा यस्य तादृग् मन । अतएव गीतासु
' चञ्चल हि मन कृष्ण । प्रमाथि बलवद् दृढम् |'
1
महाशनो महापाप्मा विध्येनमिह वैरिणम् || ( ६ । ३४) इति ||५८ || ।। इति चित्तदौरात्म्यम् ।।
( ६ )
अलमन्त मायैव तृष्णा निलुलिताशया । प्रयाता निषमोल्लासमूमिंरम्बुनिधाविव ॥५६॥
अलमिति । भ्रमो मिथ्यामति आवर्तश्च । विलुलिताशया लोडितचित्ता | अन्यत्र आन्दोलितमध्यप्रदेशा ||५६ ||
•
वाञ्छन्नपि र रोद्धु ं वात्ययेव जरत्तृणम् ।
नीतः कलुषया कापि तृष्णया चित्तचातकः ॥ ६० ॥
वाञ्छन्निति । रय चापल्य वेग च । रोद्धु वाञ्छन्नपि चित्तमेव चातक
पक्षिविशेष | धर्ममेघाख्यरसपानाय मेघरसपानाय चेत्यर्थाल्लभ्यते । वात्यया जरत्तृणमिव कलुषया तृष्णया कापि नीत प्रापित || ६०||