SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ द्वितीयो गुच्छक 'भिन्नाऽज्ञानप्रन्थिर्गतसदेह पराकृतभ्रान्ति । प्रक्षीणपुण्यपापो विग्रहयोगेऽग्यसौ मुक्त ॥' इति ॥ दृश्यात्यन्ताभावबोध विना तन्नानुभूयते । महीयसापि यत्नेन स्मोधोऽन्धिष्यतामतः ॥३॥ दृश्येति । दृश्यस्य प्रपञ्चस्य, य अत्यन्ताभावो बाय , तस्य बोध ज्ञानम् । तज्जीवन्मुक्तलक्षण स्वरूप च । नानुभूयते न साक्षाक्रियते । अत अस्मात् । महीयसा महत्तरेण । यत्नेन उपायेन । स्वबोध आत्मज्ञानम् । अन्विष्यताम् गवेष्यताम् ॥३॥ उपदेशफलितमाह दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् । सपन्न चेत् तदोत्पन्ना परा निर्वाणनितिः॥४॥ दृश्यमिति । चिद्र पादात्मनो व्यतिरिक्त दृश्य देहादि जडजात नास्तीति बोधेन तत्तज्ज्ञानेन मनस मानसात् । चेद् उक्तलक्षणस्य दृश्यस्य मार्जन निरसन सपन्न घटितम् । तदा परा निर्वाणाख्या निवृति आत्मसुखम् उत्पन्ना आविर्भूता इत्यर्थ । मन एव मनुष्याणा कारण बन्धमोक्षयोरिति भाव ॥४॥ अशेषशासनात्यागो मोक्ष इत्यभिधीयते । क्षीणाया वासनाया हि चेतो गलति सत्वरम् ॥५॥ एष वासनया कायो ध्रियते भूतपञ्जरः । तन्तुनान्तर्निविष्टेन यथा मौक्तिकगुच्छकः ॥६॥ अशेषेति, एषेति च । वासना पुनरुत्पत्तिबीजम् । पुनरुत्पत्ति प्रेत्यभाव । चेतो मन वासनापुञ्जरूपम् । शेष स्पष्टम् ।।५-६॥ वासना विभजते वासना द्विविधा शुद्धा मलिना चेति गीयते । मलिना जन्मनो बीजं शुद्धा जन्मरिभञ्जनी ॥७॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy