________________
५८
वामनेति । स्पष्टम् ॥७॥
अज्ञानघनसकाशा वनाहकारकर्कशा | पुनर्जन्मकरी ज्ञेया वासना मलिना बुधैः ||८||
ज्ञानेति । अज्ञानक्षेत्रे एव वासनाबीजानि प्ररोहन्ति हि || ||
संभृष्टबीजसस्थाना पुनर्जन्माङ्क राक्षमा । शरीरे वासना शुद्धा भाति चक्रे यथा भ्रमिः ॥६॥
सभृष्टेति । सजाते ज्ञाने कृतकृत्ये चक्रे भ्रमिरिव शरीरे भृष्टबीजकल्पा वासना भवाङ् कुरोत्पादिका न भवति । उक्त च परमार्थसारे
इति ॥६॥
दशकण्ठवधम्
अत एतत् फलति
'अग्न्यभिदग्ध बीज यथा प्ररोहासमर्थतामेति । ज्ञानाग्निदग्धमेव कर्म न जन्मप्रद् भवति ||६२||'
इति ॥१०॥
ये शुद्धवासना भूयो न जन्मानर्थभाजनम् । ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ||१०|
य इति । ज्ञातज्ञेया प्राप्तज्ञेयावसाना इत्यर्थ । तथाच गीतासु
'यदा ते मोहकलिल बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेद श्रोतव्यस्य श्रुतस्य च ॥
मुक्तिफल दृष्टान्तयन् भरद्वाज नियन्त्रयति
जीवन्मुक्तिश्रिया रेमे यथा रामो महायशाः । तदत्र साध्यते साधो' सानधानोऽनधारय ॥११॥
1
जीवन्मुक्तीति । सावधान एकतान सन् अवधारय निश्चिनु । किं तत् हे साधो । यत्र जीवन्मुक्तिविषयक साध्यते दृष्टान्तानुभवाभ्या व्युत्पाद्यते इति ॥ ११ ॥