________________
दशकण्ठवधम् अथ द्वितीयो गुच्छकः।
अथ-'योऽद्व तसिद्धान्ततरङ्गिताया वेदान्तलक्ष्म्या कुतुकान्यतानीत्' इति प्रानिर्दिष्टमर्थ चिख्यापयिषुरुत्तरग्रन्थ ससगतिकमवतारयति
अथ भगवन् ! जीवन्मुक्तस्थितिः कीदृशीति सप्रश्रय भरद्वाजेन मुनिना पृष्टो वाल्मीकी रामवसिष्ठसवादमधुरमक्षरामृत ब्रह्मरसमुपबृहयन्नुवाद-॥१॥
अथेति । अथ रामभद्रादीनाम् अपराख्यविद्याग्रहणानन्तरम् । जीवन्मुक्तस्य जीवत्मे मुक्तस्य स्थितिलक्षणम् । सप्रश्रय सप्रणयम् । प्रश्रयप्रणयौ समावित्यमर । रामवसिष्ठयो य सवाद उक्तिप्रत्युक्तिरूप , तेन मधुर श्लक्ष्णम् । अक्षराणि वर्णा एव अमृतानि पीयूषाणि, अक्षरम अविनश्वरम् अमृत मोक्षश्च, यस्मिन् तम् । ब्रह्मणो वेदस्य रस निर्यासम्, ब्रह्मव रस त च । उपव हयन् पल्लवयन् । उवाद वदव्यक्ताया वाचि ॥१॥
जागतस्य भ्रमस्यास्य जातस्याकाशवर्णवत् । अपुनःस्मरण मन्ये ब्रह्मन् ! विस्मरण वरम् ॥२॥
जागतस्येति । हे ब्रह्मन् । भरद्वाज | । आकाशवर्णवत् नभोनल्यवत् । जातस्य अत्यन्तासभावितया कल्पितस्य । अस्य पुरोतिन । जागतस्य जगत्सवन्धिन । भ्रमस्य मिथ्यामते । भ्रान्तिमिथ्यामतिभ्रम इत्यमर । उक्त च परमार्थसारे
'रज्वा नास्ति भुजङ्गस्त्रास कुरुते च मृत्युपर्यन्तम् ।
भ्रान्तेमहती शक्तिर्न विवेक्त शक्यते नाम ॥२८॥ इति । तन्मूलाविद्यावासनोच्छेदेन अपुन स्मरण यथा भवति तथा । विस्मरण स्मरणाभावम् । वरम् सर्वोत्कृष्टम् । मुक्तिलक्षणम् आत्यन्तिकदृश्योच्छेद , स्वरूप तदुपलक्षितचिन्मात्रावस्थितिश्चेत्यर्थ । मन्ये प्रमाणानुभवाभ्या निश्चित वानस्मि । नीरूपे नभसि नेल्यस्येवात्मनि विजृम्भितस्य दृश्यजातस्यात्यन्त विस्मरणमेव वरीय इति ज्यायान् पन्था । अत्रेद सारम् -