________________
प्रथमो गुच्छक
परमोच्छ्राय प्रकाश्य परितो महः । आक्रान्तजगतीचक्रो राजहसो व्यरोचत ||७२ ||
अवाप्येति । अत्रान्त स्वावीनीकृत शासनेन चङ्क्रमणेन च जगतीचक्र भूमण्डल येन तथाभूत । राजहस, राजशार्दूल मरालराजश्च । परमोच्छ्राय महती श्रिय गतिविशेष च । अवाप्य आलम्ब्य । परित समन्तात् । मह तेज धाम च प्रकाश्य निरूप्य च । व्यरोचत व्यद्योतत ||७२ ||
सरस्वतीन्दिराधौते प्रवेष्टविटपाश्रिते ।
तस्य खड्गलताभोगे चिर चिक्रीड मेदिनी ॥ ७३ ॥
सरस्वतीति । तस्य राज्ञो दशरथस्य | सरस्वतीन्दिराभ्या धौते निक्ति । प्रवेष्टौ बाहू एव विटपौ, तदाश्रिते तदालम्बने । खड्गो निस्त्रिंश एव, लता वल्ली, तदाभोगे झलञ्झलायाम् । मेदिनी चिर चिक्रीड । सुखेन सौरभमाससादेत्यर्थं । वीरभोग्या हि वसु वरेति तात्पर्यम् ॥७३॥
पठन् द्विजो वागृषभत्नमीयात्
स्यात् चत्त्रियो भूमिपतित्वमीयात् । वणिग्जनः पण्यफलत्वमीयाज्
जनश्च शूद्रोऽपि महत्त्वमीयात् ॥७४ ||
पठन् द्विज इत्यादि मूलरामायणानुरूपम् । विशेषस्त्व ||७४ ||
तातश्रीसरयूप्रसादचरणस्नर्वृक्षसेवा परो
५५
मातृश्री हरदेव्यपारकरुणा पीयूषपूर्णान्तरः ।
साकेतापरभागवद्धवसतिदुर्गाप्रसादः सुधी
रास्ते तेन कृतेऽत्र रामचरिते गुच्छोऽयमाद्यो गतः ॥७५॥
इति श्रीमति रामचरिते दशकण्ठवधे भगवदवतारो नाम प्रथमो गुच्छकः ।