________________
प्रथमो गुच्छक पुनश्च पिनयशालीनेन तेन पुत्रकाम्यया प्रार्थितः स भगवानृष्यशृङ्गोऽथर्वशिरोमन्त्रैः पुत्रीयामिष्टिमकापीत् । अहो । महर्षेः प्रभावः कियत् श्लाध्यताम् । यत्र मन्त्रव्याहारप्रादुर्भवद्द वताप्रसाददर्शनेन शब्दपूपिका सृष्टिरिति वेदवादः पप्रथे । हहो इयतापि तावत्कथमिव न चित्रीयामहे, यदेतस्या इष्टः पर्यवसानेन अपरिच्छिन्नोऽपि परिच्छिन्न इव कश्चिदिन्दीपरदाममञ्जिमा महिमाऽजनिष्ट ॥५१॥
पुनश्चेति । पुनश्च अपिच विनयशालीनेन नम्रण तेन राज्ञा पुत्रकाम्यया सतानेच्छया प्रार्थित निवेदित स दृष्टमहिमा भगवान् षडैश्वर्यसपन्न ऋष्यशृङ्ग । अथर्वशिरोमन्त्रै सद्य फलप्रदै अथर्ववेदोक्तै सतानप्रवर्तकैर्मन्त्रै पुत्रीया पुत्रफलिकाम्, इष्टिं यागविशेषम् । अकार्षीत् अकृत । अहो | इत्याश्चर्ये । महर्षे ऋष्यशृङ्गस्य । प्रभाव तपोबलम् । कियत् इयत्तया कथमिव श्लाध्यताम् प्रशस्य ताम् । यत्र इष्टौ, मन्त्रव्याहारेण मन्त्रपाठेन, प्रादुर्भवन्त्य प्रकटीभवन्त्य , या देवता मन्त्रप्रतिपाद्या , तासा प्रसाददर्शनेन प्रसन्नतावलोकनेन । शब्दपूर्विका सृष्टि -'भूरिति व्याहरन् भुव ससर्ज' इत्यादिलक्षणा । इति वेदवाद वैदिक सिद्धान्त , स्फुट व्यक्तम्, प्रपथे प्रथितो बभूव । हहो इत्याश्चर्ये । इयता एतावतापि । तावद् वाक्यालकारे । कथमिव किमिव, न नो चित्रीयामहे विस्मयामहे । यदेतस्या इष्टे , पर्यवसानेन परिणामेन, अपरिच्छिन्नोऽपि अमेयोपि, परिच्छिन्नो मेय इव, कश्चिद् अनिर्वचनीय । इन्दीवराणा नीलाम्बुरुहा, दाम्न स्रज इव, मञ्जिमा सौन्दर्य, यस्य तादृक् । महिमा प्रभाव । अजनिष्ट अजनि ॥५१।।
अत्रान्तरे दशमुखेन निपीड्यमाना
दावानलेन विकला इव जीवसघाः । देनाः सरोरुहभुव पुरतो विधाय
नारायण नलिनलोचनमेतदूचुः ॥५२॥ अत्रान्तर इति । अत्रान्तरे अस्मिन्नेव यज्ञसमये । दश मुखानि आननानि, अङ्गविकारत्वात् यस्य स तेन | निपीड्यमाना बाध्यमाना । देवा इन्द्रादय । दावानलेन दवाग्निना। दवदावौ तु वनवह्नौ वनेऽप्युभौ इति मेदिनी । विकला व्याकुला जीवसङ्घा इव । पशुप्राया इत्यर्थ । सरोरुहाद् भवतीति सरोरुहभू