________________
दशकण्ठवधम्
1
'माणवकस्य हृदयमालभते' इत्यादि दर्शनेन तथा श्रुत्यभिप्राय पिष्टपशुर्वेति वक्तु पार्यते । 'अग्नये छागस्य हविषो वपाया मेदस प्रेष्य अनुन हि वा' इत्यत्र 'प्रेष्यत्र वोह विषो देवतासप्रदाने ( पा० सू० २।३।६१ ) इति सूत्रभाष्यादिनापि छागरूपस्य पशोरेव सज्ञपनस्य सिद्धत्वात् । किच, 'अशुद्धमिति चेन्न शब्दात् ।' (ब्रह्मसू० अ० ३।२५) इति वेदान्तसूत्रमप्यत्रार्थे सवादमादवन् विभावनीयमिति दिक् ।
४४
स समापितमहामसः प्राची होत्रे, प्रतीचीमध्पर्यके, उदीचीमुद्गात्रे, पाची ब्रह्मणे च प्रादात् । ते तु न वय स्वाध्यायाचरणप्रवणा अरण्यशरणा धरणी शासितुमीश्महे । तदेषा भवतैव शिष्यताम् । अस्मभ्यमदसीयनिष्क्रयभूत यत्किचित्कल्प्यताम् इति सानुरोधमवादिषुः । तथोदितश्च साक्षात्कृतमन्नभ्यस्तेभ्यो गवा जातरूपाणा रूपाणा च कोटीरितरेभ्योऽपि यथाकाम प्रकाम वसु प्रदायाप्रीयत || ५० ॥
सइति । स दशरथ । समापित पारनीत, अश्वमेधरयो महामखो महाध्वरो येन तादृक् । प्राचीम् अयोध्या केन्द्रीकृत्य प्राग्भूभागम् । होत्रे हौत्रकर्मानुष्ठात्रे ऋग्वेदविदे । प्रतीची प्रत्यग्भूभागम् | अध्वर्यवे श्रध्वर्यवकर्मानुष्ठात्रे यजुर्वेदविदे । उदीचीम् उत्तरभूभागम् । उद्गात्रे गात्रकर्मानुष्ठात्रे सामवेदविदे | अवाचीं दक्षिणभूभाग च । ब्रह्मणे ब्रह्मकर्मानुष्ठात्रे सर्ववेदविदे अथर्वरिकाय । प्रादात् स्वस्वत्वनिवृत्तिपूर्वक प्रायच्छत । ते प्रधानभूता होत्रादय चत्वार ऋत्विजस्तु । वयमेते स्वाध्यायाचरणेषु स्वस्वशाखाकलनेषु प्रवणा परायणा, अरण्यशरणा वनवासिन | स्वाध्यायसरक्षणार्थमेव विविक्तवसतय इत्यर्थ । धरणीम् अवनीं शासितु पालयितु न नो ईश्म प्रभवाम । तत् तस्माद् एषा धरणी, चिराय परिचितेन भवता त्वयैव शिष्यताम् पाल्यताम् । अस्मभ्यम् ऋत्विग्भ्य । अमुष्या इदम् अदसीय निष्क्रयभूत मूल्यत्वेन परिकल्पितम् । यत्किंचिद् वस्तु कल्प्यताम् निरूप्यताम् । इति इत्थ सानुरोध सप्रति - बन्धम् । वादिषु कथिषु । तथोदित उक्तञ्च । साक्षात्कृतमन्त्रेभ्य स्वायत्ती कृतमन्त्रप्रतिपाद्यभ्य । तेभ्य ऋत्विग्भ्य । गवा गोतल्लजाना, जातरूपाणा स्वर्णाना, रूपाणा रूप्यारणा च कोटी संख्याविशेषान् । इतरेभ्य होत्रादिसहायभूतेभ्य अन्येभ्योऽपि यथाकाम यथेष्ट, प्रकाम भूरि, वसु द्रव्य, प्रदाय वितीर्य, प्रीयत तुष्यत् ॥५०॥