________________
दशकण्ठववम् पद्मयोनि । 'भुव सज्ञान्तरयो' (पा० सू० ३।२।१७६ ) इति कर्तरि विप् । तम् । पुरत अग्रे। विधाय कृत्वा । नलिनलोचन पुण्डरीकाक्षम् । नारायण विष्णुम् । एतद् वक्ष्यमाणम् । प्रधानकर्म । ऊचु कथयामासु ॥५२॥
त्रैलोक्यनायक । विरञ्चिपरप्रभागाद्
दुःखाकरोति बहुधाद्य स रावणोऽस्मान् । तेनात्मसत्त्वमपहाय विहायस च
वर्तामहे वयमितस्तत आधिमन्तः ॥५३॥ त्रैलोक्येति । हे त्रैलोक्यनायक । हे विश्वभर । अद्य इदानीम् । विरञ्चि ब्रह्मा । ब्रह्मत्युपलक्षणम् । शिवोऽपि । तस्य वरप्रभावात् प्रसादमहिम्न । स पौलस्त्य वैश्रवण रावण | लोकान् रावयति इति क्रियया विश्वध्रु क् । अस्मान् बहुवा सहस्रधा । दुखाकरोति पीडयति । 'दु खात्प्रातिलोम्ये' (पा० सू०५।४।६४) इति डाच् । तेन हेतुना वयम्, आवि मानसपीडा, तद्वन्त । आत्मन सत्त्व वीर्यम् । अपहाय त्यक्त्वा । विहाया स्वर्ग त च अपहाय । आत्मसत्त्वमिहापि अन्वयनीयम् । इतस्तत यत्र तत्र । वर्तामहे जीवाम ॥५३।। त्ल शासकः सकलशासनकारकाणा
स पालकः खलनिपीडनकातराणाम् । व स्थापकः श्रुतिनिरूपितपद्धतीना
यत्र प्रयाणनिरता न खलु स्खलन्ति ॥५४॥ समिति । हे भगवन् । त्व भवान् । सकलानि समग्राणि यानि शासनानि, निग्रहानुग्रहरूपाणि, तेषा कारकाणा कतणाम, अपि शासक नियन्ता । असि । एव च निमित्तमात्रेण उपेन्द्रसज्ञा श्रयन् इन्द्रादिबाधकस्य त्वमेवानन्यशरण इति लभ्यते। त्व भवान् । खला दुरात्मान, तेषा निपीडनेन बाधनेन, कातराणाम् अधीराणाम्, पालक रक्षक । असि । एतत्तु गुणप्राधान्येन तवैव कर्मेति । त्व भवान् । श्रुत्या वेदेन, निरूपिता व्यवस्थापिता , या पद्धतय मार्गा, तासा स्थापक व्यवस्थापक । असि । एतदपि पूर्वोक्ताम्र डन, तत् स्तुतौ शोभनम् । यत्र वेदागमपद्धतिषु, प्रयाणनिरता गमनपरायणा , न खलु नैव, स्खलन्ति पतन्ति ॥५४॥