________________
दशकएठवधम् होताध्वयुस्तथोद्गाता हयेन समयोजयन् । महिष्या परिवृत्त्याथ वापातामपरा तथा ॥ पतत्त्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः । ऋत्विक्परमसपन्नः श्रपयामास शास्त्रतः ॥ धूमगन्ध वपायास्तु जिघ्रतिस्म नराधिपः । यथाकाल यथान्याय निणु दन् पापमात्मन || हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः । अग्नौ प्रास्यन्ति विधिवत् समस्ता. षोडशतिज ॥"
__(इत्याषषट्कम् ) ॥४६॥ ततश्चेति । ततश्च क्रमत वैवक्रमेणेत्यर्थ । इदानी जैनबौद्धकल्पाना पिष्टपशुकल्पकाना ज्ञानाञ्जनशलाकायमान वाल्मीकीयमाषषट्कमवतारयति'कौशल्येत्यादिना षोडशर्विजः ॥' इत्यन्तेन ।
'पर्यग्निकृतानारण्यान् उत्सजत्यहिंसाया' इति श्रौतसमयाचारात् आरण्यान् पशून पर्यग्निकृतानुत्सृज्य शामित्रे निशसनकर्मणि ग्राम्याणा पशूना यथाशास्त्र नियोजनान तरमिति पूर्वेण सबन्ध । कौसल्या महिषी शामित्रप्रदेशे त मृताश्व समतत परित , परिचर्य समन्त्रक प्रदक्षिणाप्रदक्षिण सचार्य, कृपाणे तिसृभि सौवर्णीभि' सूचिभि , एन अश्व परमया मुदा निरवधिकश्रद्धया विशशास सज्ञपयामास । तदा विशसनोत्तरकाले, कौसल्या धर्मकाम्यया धर्मसिद्धिसपादनेच्छया। काम्यजतादकारप्रत्यये टाप् । अव्यग्रा शवस्पर्शजनितमनोविकारशून्या पतत्त्रिणा अश्वेन साधं साक एका रजनी रात्रिम् अवसत् अवात्सीत् । अय भाव - तत्तन्मन्त्रोच्चारपूर्वक महिषी यथाविवि अश्वमुपसगम्य प्रजनने प्रजनन सनिवायोपविष्टा । ततोऽध्वर्युक्षौमेन वाससा महिषीमश्व च प्रच्छादितवान् । सा च रेतोधानमन्त्रमामृशन्ती आनीघ्र जागरण कुर्वती निशा निनाय । होता, अध्वर्यु , उद्गाता, तथेतिपदेन ब्रह्मणोऽप्युपसग्रह । महिष्या कौसल्यया परिवृत्त्या एतत्पदपरिभाषितया उपेक्षितया च साक वावाता भोगिनी अपरा पात्रप्रदा पालाकली च राज्ञो दक्षिणार्थ परिगृह्य हस्तेन समयोजयन् रमणवत् पाणिग्राहमगृह्णन् । तथा च सूत्रम्