________________
३०
दशकण्ठरवम्
तत्र य आघात निपात , तेन भग्न खण्डित , ऊो सक्थ्नो , सधि सधान यस्य तथाभूत सन् । अविद्यमानौ ऊरू यस्य, तस्य भावम् । अनुरुत्वमिति भाव । आप आससाद । इति शङ्क मन्ये ।
'मन्ये शक ध्रुव प्रायो नूनमित्येवमादिभि ।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृश ॥ इत्युक्त दण्डिन काव्यादर्शे ॥३७॥ फुल्लदल्लीमतल्लीवलयितविविधानोकहाहूयमान
प्रौढ व्वान्ताढ्यकुञ्जोदरगतकमनद्वन्द्वनमैंकसाक्षि । यस्यामुद्यानवृन्द मृदुपवनपतत्पुष्पगन्धानुगच्छ
न्माघल्लोलम्बनादद्विगुणितमदन भुञ्जते भाग्यभाज ॥३८॥ फुल्लदिति । यस्या पुरि । भाग्यभाज सौभाग्यशालिन । फुल्लन्त्य म्फुटा , या वल्लीमतल्य प्रशस्तवल्लर्य । 'प्रशसावचनैश्च' (पा० २।१।६६) इति समास । ताभि वलयिता वेष्टिता , विशिष्टा विवा प्रकारो येषा तथाभूता , ये अनोकहा शाखिन , तै आहूयमान सचीयमान , य प्रौढध्वान्त गाढान्ध कार , तेन पाढ्य सपन्न यत् कुञ्जोदर लतागृहान्तरम् , तद्गत यत् कमनद्वन्द्व कामुकमिथुनम् , तस्य नर्मण एकसाक्षि असाधारणद्रष्ट । मृदुना कोमलेन, पवनेन वायुना, पतन्ति पतनशीलानि, यानि पुष्पाणि प्रसूनानि, तेषा गन्ध सौरभ्यम् , अनुगच्छन्त अनुसरत , माद्यन्त हर्षमाणाः, लोलम्बा भ्रमरा , तेषा नादै नि स्वनै , द्विगुणित द्वैगुण्य नीत , मदन मन्मथ , यस्मिन् तथोक्तम् । उद्यानवृन्दम् आक्रीडनिकुरम्बम् । भुञ्जते सेवन्ते ।। एतानि स्रग्धरा वृत्तानि ॥३८॥
यस्याश्चोत्तरभागे निमलतरतरङ्गरिङ्गत्प्रतिविम्बैबैंकर्तनातपतापतततयावगाहनाय कृतप्रयासैरिव, माध्यदिननियमाय तटोपविष्टाना षटकर्मणामातपापनोदार्थमुद्यव्रततिपितानोपगूढपिटपाभोगकैतवेन धृतातपत्ररिव, उदयास्ताचलमध्यभ्रमणशीलस्यभगवतः सप्तसप्तेः प्रान्तरसचरातिक्रमणक्लान्तरथ्यपथ्यपाथेयार्थमनूरुशिष्टिसपादितशष्पकूटभृगरिव, पादपकदम्बकैरलक्रियमाणकला, मदमत्तराजहसकुलकेलिपरिभ्रान्तपाठीनपुच्छपरिवर्तनावधूतविकचपङ्क रुहपटलरिंगलन्मकरन्दबिन्दुसदोहवासितवोया, अवगाहनावतारितमत्तमातङ्गघटाकपोलपालीश्च्योतन्मदधाराकषा