________________
HIHHATHRIRAT
प्रथमो गुच्छक यस्यां च सर्वदासारचन्तोऽन्तर्वर्षागृहा वही रक्षापुरुषाः, विश्वभरापरागभाजोऽन्तर्वालका बहिर्वाहीकाः, लताङ्गीकृतहार्दाः कुसुमेषुचपल
चेतसोऽन्तर्विलासिनो बहिमिलिन्दाः, वयोविलासहारिण्यो विटपालिपरायणा अन्तर्वाणिन्यो पहिरुपबनवल्लयः, मधुपरागन्ति परागवन्ति रागन्ति चान्तारभयनाजिराणि बहिः क्रीडाकुञ्जलतान्तराणि ॥३३॥ __ यस्या चेति । यस्या च । अन्त अभ्यन्तरे-वर्षाणा कलायन्त्रप्रवर्तिताना गृहा आलया । सर्वदा निरन्तरम्, न तु विश्रम्य विश्रम्य, आसारवन्त वारा सपातशालिन । 'धारासपात आसार' इत्यमर । बहि प्राकाराद् बाह्यप्रदेशेषु । रक्षापुरुषा पालका । सर्वदा सारवन्त बलवन्त इत्यर्थ । 'सारो बले स्थिराशे च' इत्यमर । अन्त -बालका अर्भका । विश्वभराया परागान् पासून भजन्ति इति विश्वभरापरागभाज । धूलिधूसरविग्रहा इत्यर्थ । बहि बाहीका प्राकृता लौकायतिका । बहिषष्टिलोपो ईकम् च । विश्वभरे भगवति अपरागभाज । अन्त विलसन्ति तच्छीला -विलासिन कामुका । लतावद् अङ्गानि यासा ता लताङ्गय । सुकुमारगाव्य इत्यर्थ । लताङ्गोषु, कृत विहित, हार्द प्रेम, यैस्तै तथोक्ता । कुसुमेषुणा पुष्पायुधेन, चपल तरल, चेत चित्त, येषा ते, तथाभूताश्च । बहि - मिलिन्दा षट्पदा । लतासु वल्लरीषु, अङ्गीकृत हाद यैस्ते । कुसुमेषु पुष्पेषु । चपलचेतस दोलायमानमानसाश्च । अन्त -वाणिन्यो मत्त गना । वयस यौवनस्य, विलासेन कौतुकेन, हारिण्य हृदयग्राहिण्य । विटाना भुजङ्गाना, पालौ पड्क्ती, परायणा तत्पराश्च । बहि-उपवनवल्लर्य आरामवीरुध । वयसा पक्षिणा, विलासेन क्रीडया, हारिण्य हृदयगमा । विटपाना शाखिविस्तारपल्लवानाम् , आलिषु, परायणा आसक्ताश्च । मधुना, परा उत्कृष्टा , अगा वृक्षा, मधुपाना रागाश्च । तद्वन्ति । परागा -किजल्का क्रीडापर्वतकाश्च । तद्वन्ति । रागा -लाहितादय गीतकानि च । तद्वन्ति । सर्वत्र प्राशस्त्ये मतुप् । नपु सके बहुवचनम् । अन्तर्बहिश्च समानार्थकम् । वारस्य वेशस्य, भवनाजिराणि गृहाङ्ग णानि । क्रीडार्थ यानि कुानि निकुञ्जानि, तेषा लतान्तराणि व्रतत्यन्तरा लानि ।।३।।
कथमसौ नाकान्नातिरिच्यते---यतोऽमुष्यामुपप्राकार जिष्णुकोटय , प्रतिपण्यपीथिक पत्रोचयाः, अनुधात्रि नन्दनवर्गः, गृहे गृहे रम्भाः, शासने शासने गुरसः, पदे पदे सुधर्माः ॥३४॥