________________
दशकएठवधम एभि एषु वा इति यानानि पञ्चभूतवैभवारब्धकलायन्त्रादीनि । 'करणाधिकरण योश्च' ( पा० ३।३।११७ ) इति ल्युट् । सतत नक्त िदवम् । प्लवन्ते । प्लुड् गतौ । इमे उपजाती ॥३०॥
या भाति तर्कविद्येव प्रकाशितनवक्षणा ।
पर गुणिनि वर्वति यत्र शक्तिविलक्षणा ॥३१॥ येति । या पुरी । तर्कविद्या तर्कशास्त्रमिव प्रकाशितनवक्षणा आभाति । प्रकाशिता आयोजिता नवा नूतना क्षणा उत्सवा यस्या सा । '-अथ क्षण उद्धर्षो मह उद्धव उत्सव ।' इत्यमर । तर्कविद्यापक्षे तु-नव नवसरयाका क्षणा पाकक्षणा यस्या सा । स्पष्टोऽयमर्थ पीलुपिठरपाकवादावसरे
'तत्रापि परमाणौ स्यात् पाको वैशेषिके नये ।
नैयायिकाना तु नये द्वयणुकादावपीष्यते ।।' ___ इत्यादौ । पर यत्र । गुणिनि पौरलोके । विलक्षणा लोकोत्तरा । शक्ति सामर्थ्यम् । वर्वति वरीवृतीति-इति व्यतिरेकोद्भावनम् । तर्कशास्त्रे तुशक्तिग्रह व्याकरणोपमानकोशाप्तवाक्यादित्यादि विचारावसरे-'नीलादिपदाना नीलरूपादौ नीलविशिष्टे च शक्ति कोशेन व्युत्पाद्यते । तथापि लाघवानीला दावेव शक्ति , नीलादिरूपविशिष्टे तु लक्षणैवाङ्गीक्रियते ।' इति । व्याकरणे तु'गुणवचनेभ्यो मतुबो लुगिष्ट' इति भिन्न व रीतिराश्रीयते । एव गुणे शक्ति गुणिनि लक्षणा आस्ताम् । अस्यामयोध्याया तु गुणिनि गुणशालिन्यपि विलक्षणा शक्ति प्रतीयत इति वाचोयुक्तिमात्रम् ।।३१।।
भूमयो बहिरन्तश्च कान्ताहारपरिष्कृताः।
अश्रान्त कम्रगोत्राणा सौहित्य यत्र कुर्वते ॥३२॥ भूमय इति । यत्र यस्या पुरि । कान्तै मनोहारिभि आहावै निपान । 'आहावस्तु निपान स्यादुपकूपजलाशये ।' इत्यमर ! परिष्कृता घटिता । बहिभूमय । तथा-कान्ताना कामिनीना हावै शृङ्गारभावक्रियाभि , परिष्कृता भूषिता । अन्तभूमयश्च । यथाक्रम कम्रगोत्राणा । गवा समूहा गोत्रा । 'इनित्रकट्यचश्च' (पा० ४।२।५१) इति सामूहिक त्र । स्त्रीत्व लोकात । टाप् । कम्रा शोभनाश्च ता गोत्राश्च, तासाम् । कम्राणा कामुकाना गोत्राणि कुलानि तेषाम् । 'कम्र कामयिता-' इत्यमर । अश्रान्तम् अनारतम् । सुहितस्य भाव सौहित्य तर्पणम् । 'सौहित्य तर्पण तृप्ति ' इत्यमर । कुर्वते कुर्वन्ति ॥३२॥