________________
प्रथमो गुच्छक सुधाशुशोभाजयजागरूकै
रभ्युन्नतैः स्फाटिकसौधशृङ्गः। हिमाद्रितुगत्वजिगीषयेव
या वर्धते विष्णुपद श्रयन्ती ॥२६॥ सुधाश्विति । या पुरी । सुधाशो पीयूषरश्मे शोभा छनि , तस्या जये पराभवे, जागरूकै व्याप्रियमाणे । 'जागुरूक' (पा० ३।२।१६५ ) इति उक प्रत्यय । अ-युन्नतै अभ्र करित्यर्थ । स्फाटिकै स्फटिकमणिनिर्मितै । सुधालेपोऽ स्त्येषा सौवाना हाणाम् । 'ज्योत्स्नादिभ्य उपसख्यानम्' इति अण् । शृङ्गै शिखरै । हिमाद्रे हिमालयस्य, तुगत्वम् उच्छाय , तस्य जिगीषया जेतुम् इच्छयेव । विष्णुपदम् आकाशम् । मेरुगत विष्णुपुर च । विष्णुपुराणवर्णनात् । श्रयन्ती सेवमाना। वर्धते स्फायते । वृध वृद्धौ । ब्रह्म विष्णु रुद्रपुराणि मेरावेव वर्णि तानि । मेरुस्तु देवभूमितया पुराणेतिहासादौ सुप्रसिद्ध एव । इयमयोध्या तु भुवर्लोकगता । भूलोकस्तु लड्कादक्षिणभागे। एव भूर्भुव स्व सज्ञकास्त्रयो लोका भूविशेषगता एव मन्तव्या । महरादिचत्वारो लोकास्तु भूमेरोरुपरिष्ठात् । एव विष्णुपुराणतो वेदितव्या । यत्तु साकेतगोलोकादिव्यवस्थाऽन्यथान्यथा कल्यते सा तु कल्पनैवेति सक्षेप ।।२६।।
कलाकलापाकलिताकृतीनि
___ स्थले जले व्योमनि सद्गतीनि । यथेष्टवेगानि गृहोपमानि
यानानि यस्या सतत प्लवन्ते ॥३०॥ कलेति । यस्या पुरि । कला वेदनिर्गतानि अर्थवेदरूढानि विश्वकर्मादिशिल्पशास्त्राणि, तासा क्लापा उच्चावचविभागा , तै आफलिता सुनिरूप्य
आपादिता , आकृतय अगोपाङ्गघटनावस्थितय येषा तानि । स्थले भूम्यादौ । जले समुद्रादौ । व्योमनि अन्तरिक्षादौ । इहादिशब्दलभ्य पर्वत-सरिद् द्योलोकलक्षणोऽर्थ समुन्नेय । तत्र कौवेर पुष्पक, राघव स्यन्दन लिङ्गमिति सक्षेप । सत्य अस्खलिता गतय गमनानि येषा तथोक्तानि । यथेष्ट यथाभिलषित वेगो जवो येषा तानि । गृहा उन्चावचभूमिका उममा सादृश्य येषा तानि | यान्ति