________________
२२
दशकएठवधम्
इस आचरतीति हसायते । उपमानपदाद् हसात् कर्तु आचारेऽर्थे क्यड् । येपा च पादौ अम्भोने इव, तयो रज कण धूलिकणिका च । सुमनसा सुपिया हर्ष उल्लास तदर्थम् । वर्षायते इति वर्षाशब्दात् पूर्ववत् क्या' । वर्षा अपि सुमनसा पुष्पाणा हर्षाय प्रभवन्तीति श्लिष्यते । ते। सिद्धीकृता साधनानुषगण सिद्ध पदवी गता । सिद्धय अणिमादय येषा ते तथाभूता अपि । नियमापेक्षया विषया शब्दस्पर्शरूपरसगन्धा श्रोत्रत्वक्चक्षूरसनघ्राणगोचरा , तेषाम आस्वाद स्पृहा ग्रहणवासना , तासु निस्पृहा निष्का तगार्ध्या | अतएव सरयूकोडे सारवप्रान्तरे, कुटीषु पर्णशालासु वसन्ति तच्छीला महात्मान । कमपि अनिर्वचनीयम् । भूमान पारमेश्वर मह । स्मरन्ति चिन्तयन्ति । स्पष्टोऽयमों वेदान्तदर्शने-'भूमा सप्रसादादध्युपदेशात्' (वे. द. १।३८ ) इति सूत्रवृत्ति भाष्ययो । शार्दूलविक्रीडित वृत्तम् ॥२४॥ वातान्दोलनकेलिलोलमरयूकल्लोलमालोज्ज्वले
सर्वाङ्गीणफलप्रसूनविभवव्याघूर्णमानद्रुमे । क्यापि बध्नसुतान्तरालविकसन्नीलाम्बुजन्मोपरि
क्रीडपटपदकान्ति किचन महो ध्यायन्ति बद्धासनाः ॥२५॥ वातेति । बद्ध स्वस्तिकपद्मादि स्थिरसुखम् आसन ये तथोक्ता महापुरुषा । वातस्य समीरणस्य या आन्दोलनकेलि व्यापारलीला, तया लोला चञ्चला ये सरय्या कल्लोला उल्लोला , तेषा मालाभि परम्पराभि उज्ज्वले प्रकाशमाने । सर्वाङ्गाणि व्याप्नोतीति सर्वाङ्गीण सर्वाग्यवसपूर्ण । 'तत्सर्वादे पथ्यगकर्म पत्रपात्र व्याप्नोति' (पा० ५।२।७) इति ख । सर्वाङ्गीणो य फलप्रसूनविभव प्रसवसपत् , तेन व्याघूर्णमाना व्याजम्भमाणा द्रमा यस्मिंस्तादशि | कापि प्रदेशे । बध्नस्य सूर्यस्य सुता यमुना, तस्या अन्तराले मध्ये, विकसन्ति विकस्व राणि, नीलाम्बुजन्मानि इन्दीवराणि, तेषाम् उपरि उपरिष्टात् । क्रीडता षट्पदाना कान्तिरिव कान्तिर्यस्य तत् । 'सप्तम्युपमानपूर्वपदस्य' इति वार्तिकेनोत्तर पदलोपोऽत्र द्रष्टव्य । अथवा-क्रीडन्त खेलन्तो ये षट्पदास्तद्वत् कान्तिर्यस्य तत् । किंचन किमपि । रामात्मक कृष्णात्मक वा मह । तच्च लीलाविग्रहोपलक्षकमपि । देवाना विग्रहवत्वे-'विरोध कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्' (वे० द० २३।२७) इति वेदान्तसूत्रमपि निरूपितम् । ध्यायन्ति चिन्तयन्ति । पद्याभ्यामाभ्या योगाभ्यासयोग्या भूमि सूचिता । तथा च न्यायसूत्रम्-'अरण्यगुहापुलिनादिषु