________________
प्रथमो गुच्छक उदारेति । यश्च । उदाराणि प्रशस्तानि कर्माणि क्रियमाणानि यस्मिस्तथाभूतोऽपि । न उदाराणि न प्रशसाकर्माणि चरितानि यस्मिंस्तथोक्त । अपिना विरोधो द्योत्यते । तत्परिहारस्तु-अनुदारम् अनुकुटुम्बिनि कर्म यस्मिन्नित्यनुदारकर्मा। अव्ययीभावगर्भो बहुव्रीहि । पाटला श्वेतरक्ता आभा शोभा यस्य तादृगपि उपशल्येषु सामान्तेषु रूढा या द्रुमाणा शाखिनाम् अावल्य वीथ्य ताभि श्यामलित श्यामलिमान प्राप्त -इति विरोध । पाटल श्यामलो न भव तीत्यर्थ । विरोवनिरासस्तु-पाटलै ब्रीहिभि आभाति शोभते इति पाटलाभ । 'आशु/हि पाटल स्यात्-इत्यमर । वनीप अवनीपोऽर्थाद् वनीपभिन्नो न भवतीति विरोव । तत्परिहारस्तु-वनीपाना याचकाना राग प्रीतियंत्र । धनवाय समृद्धत्वात् । अपनीपाना भूभुजा रागो यत्रेति । वनीम अरण्यानीम् , अवनी भुव च पान्तीति वनीपा अवनीपा । 'आतोऽनुपसर्गे क' (पा० ३।२१.) चकास्ति दीप्यते । चकास दीप्तौ । उपजातिवृत्तम् ।।२२।।
किमियता । यत्र च पुनहिमकरकरनिकरकरम्बितकुमुढदलावदातकीर्तिकर्पूरकरण्डीकृतरोदसीकास्तपस्यन्ति तपोनिवयः ॥२३॥
फिमियतेति । इयता किम् । यत्र च पुन । हिमा शिशिरा करा यस्य स हिमकर चन्द्र , तस्य करा किरणा , तेषा निकर समुदाय , तेन करम्बितानि सवलितानि यानि कुमुदानि कैरवाणि, तेषा दलवत् पत्रवद् अवदाता विशुद्धा या कीर्ति सैव कपूर नासीर , तस्य करण्ड स्थापनपात्रम्, तत्कृता रोदसी द्यावापृथिव्योर्वपु यै ते तथोक्ता । 'अभूततद्भाव 'इति न्वि । समासान्त कप् । तपोनिधय ऋषयो मुनय सुकृतिनश्च । तपस्यन्ति तपासि चरन्ति । 'कर्मणो रोमन्थतपोभ्या वर्तिचरो' ( पा० ३।१।१५) इति क्यड्। 'तपस परस्मैपट च' इति वार्तिकेन परस्मैपदम् ॥ २३॥ येषा दर्शनमाशु मोहतिमिरध्धसाय हमायते
पादाम्भोजरजःकणश्च सुमनोहर्षाय वर्षायते । ते सिद्धीकृतसिद्वयोऽपि विषयास्वादस्पृहानिःस्पृहा
भूमान कमपि स्मरन्ति सरयूक्रोडे कुटीबासिनः ॥२४॥ येषामिति । येषा तपस्यता दर्शनम् आशु सद्य । द्रष्टणा मोहोऽज्ञान स एर आवरक्त्वात् तिमिरम् अन्धकार , तस्य ध्वसो नाश , तदर्थ हस सहस्रकिरण